________________
सूक्तमुक्तावली र्जलेन मेतायं च स्नपयामास ।
द्वितीये दिवसे महता महेन स मेतार्यो राजपुत्रीं ता अष्टौ व्यवहारिपुत्रीश्च विवाहितवान् । तस्मिन्नवसरे स देवस्तत्रागत्याऽतिष्ठदवदच्च- किं भो ! विवाहो जातः ? अतःपरं किं विधित्ससि ? तदवसरे मेतार्योऽवदत्- भो देव ! त्वं नमस्करोमि साञ्जलिः प्रार्थये च यदहमधुना नवपरिणीतोऽस्मि । ताभिः सहेदानीं कियन्तमपि कालं सुखानि भोक्तुमनुकम्पय । देवो न्यगदत्- भो मित्र ! द्वादशवर्षाणि सुखं भुक्ष्व, तदन्ते तु ग्राह्मैव दीक्षेति निगद्य देवः स्वस्थानमगमत् । __अथाऽवध्यन्ते स देवः पुनरागात्तदापि नवभिः कन्याभिः प्रार्थितो देवस्तस्य पुनर्वादशवर्षाणि यावत्समयं दत्तवान् । तस्याऽप्यवसाने स देवस्तत्रागत्य मेतार्यमवोचत- भो मेतार्य ! अद्य मा विलम्बं कुरु, एतास्त्यज, चारित्रं च पालय | तदाकर्ण्य नवपत्नीः परिपृच्छ्य श्रीमहावीरप्रभोः पार्थमेत्य दीक्षामग्रहीत् ।
अथ स एव मेतार्यमुनिर्जिनकल्पीयमासक्षपणं विदधदेकदा पारणाकृते तत्र राजगृहनगरे कस्यचन स्वर्णकारस्य द्वारि समायातः । तत्रावसरे स सुवर्णकारः स्वर्णमयानष्टोत्तरशतयवान् कृत्वा तत्रैव संस्थाप्य स्वयं गृहान्तरागात् । स मुनिस्तत्रैवाऽतिष्ठत्तावदेकः क्रौञ्चपक्षी तत्राऽऽगत्य तान् सकलानपि यवान् जग्रास | पुनरुड्डीय कुक्षिभूरिभारतो दूरं गन्तुमशक्तस्तत्समीपदेश एव वृक्षोपरि तस्थौ । तत्रस्थो मेतार्यमुनिः सर्वमेतदपश्यत् ।
अथ गृहादागत्य तत्र स्थापितान् यवानपश्यन् स मुनिमाख्यत्भोः साधो! मयाऽत्र यवाः स्थापितास्ते न दृश्यन्ते केन गृहीताः ? अत्र
341