________________
सूक्तमुक्तावली तु त्वमेवासीः, कोऽप्यन्यो नागतोऽतस्त्वयैव गृहीता नान्येन, प्रत्यर्पय । एते श्रेणिकस्य राज्ञः सन्ति, कस्याऽप्यन्यस्य नेत्थं मार्गितो मेतार्यमुनिर्दध्यौ- अहो ! यदि वक्ष्यामि तर्हि तं पक्षिणमसौ नूनं हनिष्यति, अतो मया किमपि न वाच्यम् । यद्भावि तद्भविष्यतीत्यवधार्य क्षान्त्या मौनमालम्ब्य स तत्रैव तस्थौ ।
__ अथ बहुधा पृष्टो मार्गिो मुनिर्यदा किमपि नोत्ततार न वा तानार्पयत्तदा पुनर्भणितस्तेन- भोः पाखण्डिन् ! धर्मधूर्तराड् ! अहं शान्त्या मुहुस्त्वां कथयामि, त्वं मौनमाश्रित्य कथं तिष्ठसि, सत्वरं देहि नो चेद्धनिष्यामि । परं स क्षान्तशिरोमणिर्दध्यौ-यत्सत्यं वदानि तर्हि जीवो हिंसितो भवति । अतो मया परजीवजीवातवे नश्वरमेतच्छरीरमपि देयमेवेत्थं विचिन्त्य तूष्णीं स्थितस्य मेतार्यमुनेः शिरः प्रकुपितः पश्यतोहर आर्द्रचर्मणा दृढं बद्ध्वाऽसह्याऽऽतपे चिरं समतिष्ठिपत् । किञ्चिद्विरम्य समाकृष्टे चर्मणि तद्वेदनातो मेतार्यमुनेनयने युगपदेव निपेततुः । तदापि समतां भावयन् क्षान्त्या तद्वेदनां सहमानो मेतार्यमुनिरन्तकृत्केवलीभूत्वा मोक्षमधिजगाम |
___ तदैव कोऽप्येकः काष्ठभारवाही तवृक्षमूलमवष्टम्म्य काष्ठभारं दधार | तदाघातभीत्या स क्रौञ्चपक्षी पुरा निगीर्णान् यवान् सर्वानवमत्, तदालोक्यातिभीतः स दध्यौ-अहो ! मम कीदृशं दुर्दैवमागतमेष मुनिः श्रेणिकनरेन्द्रस्य जामाताऽस्ति । यं वीक्ष्य प्रधानादयः सर्वे प्रणमन्ति, स एव मया निहतः। महाननर्थो जात । एतद् घोरकर्म सपरिवारं मां विनाशयिष्यति । इदानीं साधुवेष एव त्राता भविष्यति नान्यः कोऽपीति विमृश्य सकुटुम्बः स स्वर्णकारः साधुवेशं विधाय तत्रोपाविशत् ।
342