________________
सूक्तमुक्तावली
कियत्कालानन्तरं तन्मुनेस्तादृशवधादिवृत्तमाकर्ण्य कुपितो राजा भटानेवमादिशत्- भो भो भटा ! यूयं तत्र गत्वा स्वर्णकारं बद्ध्वा तमत्राऽऽनयत । तेऽपि तत्रागत्य सर्वान्मुनीनेवाऽपश्यन् । पुनस्ते नृपान्तिकमागत्य जगदुः- स्वामिन् ! तत्र तु सर्वे साधव एव दृश्यन्ते, स स्वर्णकारस्तु कुत्रापि न दृश्यते । ___अथ स्वमेव श्रेणिको राजा भटैः सह तत्रागत्यतानखिलान्मुनिवेषेणोपविष्टानालोक्य जगाद- अरे पश्यतोहर ! त्वया साधु कृतम्, यदीदृशं कुकृत्यं कृत्वाऽपि चारित्रं जग्राह | अन्यथैतदन्यायफलभोगं विना तव मुक्तिः कथं स्यात् ? पुनर्नृपादयस्तान्धृतसाधुवेषानभिवन्द्य स्वालयमीयुस्तेऽपि चारित्रं पालयन्तः सुखिनोऽभूवन् । इत्थं मेतार्यमुनिवर्यस्याऽधिकारः क्षमोपरि निगदितः । उक्तञ्चोपदेशमालायाम्जो कोचगावराहे, पाणिदया कोंचगे तु णाइक्वे । जीवियमणपेहंतं, मेयज्जरिसिं णमंसामि
॥१॥ णिप्फेडियाणि दोण्णि वि, सीसावेढेण जस्स अच्छीणि । ण य संजमाउ चलिओ, मेयज्जो मंदरगिरि व्य ॥२॥
अहो ! पूर्वभवे साधुवेशे यद्गोपालसाधुर्मनस्यपि साध्वाचारघृणामकरोत्तेन हेतुना तस्याऽत्र जन्मनि चाण्डालगृहे जन्माऽभूत् । अतो वच्मि कैश्चिदपि कदाचिदपि चारित्रे घृणा नैव विधातव्या, किञ्चमेतार्यमुनिः पक्षिजीवानुकम्पोदयात्स्वप्राणातिपातेऽपि क्षमां न जहौ तेन स मोक्षमाप । इत्थमन्यैरपि क्षमाधम विधातव्यं तेन मेतार्यमुनीश्वरवदक्षय्यं सुख प्राप्तव्यं सर्वैर्मव्यवरिति ।
-343