Book Title: Sukta Muktavali
Author(s): Jayanandsuri and Others
Publisher: Ramchandra Prakashan Samiti

Previous | Next

Page 384
________________ सूक्तमुक्तावली कियत्कालानन्तरं तन्मुनेस्तादृशवधादिवृत्तमाकर्ण्य कुपितो राजा भटानेवमादिशत्- भो भो भटा ! यूयं तत्र गत्वा स्वर्णकारं बद्ध्वा तमत्राऽऽनयत । तेऽपि तत्रागत्य सर्वान्मुनीनेवाऽपश्यन् । पुनस्ते नृपान्तिकमागत्य जगदुः- स्वामिन् ! तत्र तु सर्वे साधव एव दृश्यन्ते, स स्वर्णकारस्तु कुत्रापि न दृश्यते । ___अथ स्वमेव श्रेणिको राजा भटैः सह तत्रागत्यतानखिलान्मुनिवेषेणोपविष्टानालोक्य जगाद- अरे पश्यतोहर ! त्वया साधु कृतम्, यदीदृशं कुकृत्यं कृत्वाऽपि चारित्रं जग्राह | अन्यथैतदन्यायफलभोगं विना तव मुक्तिः कथं स्यात् ? पुनर्नृपादयस्तान्धृतसाधुवेषानभिवन्द्य स्वालयमीयुस्तेऽपि चारित्रं पालयन्तः सुखिनोऽभूवन् । इत्थं मेतार्यमुनिवर्यस्याऽधिकारः क्षमोपरि निगदितः । उक्तञ्चोपदेशमालायाम्जो कोचगावराहे, पाणिदया कोंचगे तु णाइक्वे । जीवियमणपेहंतं, मेयज्जरिसिं णमंसामि ॥१॥ णिप्फेडियाणि दोण्णि वि, सीसावेढेण जस्स अच्छीणि । ण य संजमाउ चलिओ, मेयज्जो मंदरगिरि व्य ॥२॥ अहो ! पूर्वभवे साधुवेशे यद्गोपालसाधुर्मनस्यपि साध्वाचारघृणामकरोत्तेन हेतुना तस्याऽत्र जन्मनि चाण्डालगृहे जन्माऽभूत् । अतो वच्मि कैश्चिदपि कदाचिदपि चारित्रे घृणा नैव विधातव्या, किञ्चमेतार्यमुनिः पक्षिजीवानुकम्पोदयात्स्वप्राणातिपातेऽपि क्षमां न जहौ तेन स मोक्षमाप । इत्थमन्यैरपि क्षमाधम विधातव्यं तेन मेतार्यमुनीश्वरवदक्षय्यं सुख प्राप्तव्यं सर्वैर्मव्यवरिति । -343

Loading...

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434