Book Title: Sukta Muktavali
Author(s): Jayanandsuri and Others
Publisher: Ramchandra Prakashan Samiti

View full book text
Previous | Next

Page 389
________________ सूक्तमुक्तावली समृद्धिञ्च सुवैराग्येण त्यक्त्वा मनो योगे योजितम् ।।११।। ७- अथाऽनित्यभावनया व्यक्तदेहाभिमानस्य भरतचक्रवर्तिनः कथायथा राज्यसुखं भुञ्जानस्य भरतचक्रवर्तिनश्चक्ररत्नमुदपद्यत तथाऽऽदीश्वरभगवतः केवलज्ञानमजायत । एकदैव कार्यद्वयस्य वर्धापनं भरताय समागतमिति मुदितो राजा ताभ्यां नराभ्यां प्रचुरं दानमदत । ततो मनसि दध्यौ- यदिदं चक्ररत्नमुत्पेदे तदत्रैव फलदम् । तात ऋषभदेवस्वामी तु लोकद्वयेऽपि निःसीम-फलदायी, ततो मया प्रथम तद्भक्तिरेव विधातव्येति विचार्य मरुदेवीमातरं गजोपर्युपावेश्य भरतचक्रवर्ती प्रभोर्वन्दनायै चचाल | या मरुदेवी माता पुरा पुत्रस्य ऋषभदेवस्य विरहादनिशं रुदती वर्षमेकं व्यतीयाय । सैव तस्य वन्दनायै यान्ती देवदुन्दुभिस्वनमाकर्ण्य भरतमपृच्छत्- हे भरत ! वाद्यानामीदृग्मधुरध्वनिः कुत्र जायते ? किमस्ति तत्र ? येनेदृशोऽश्रुतपूर्वोऽपूर्वो वाद्यध्वनिः श्रूयते? तदा भरतोऽवदत्-हे मातः! यत्त्वंपुरा ममोपालम्मंददानाऽऽसी:, यथा- हे भरत ! त्वं नूनं राज्यसुखलुब्धोऽभूः । यदृषभस्य शुद्धिं न कुरुषे तस्यैव त्वत्पुत्रस्यैषा सम्पत्तिरस्ति । नयनयुगलमुन्मील्य पश्यपश्य, इत्याकर्ण्य हर्षोत्फुल्लोचना मरुदेवी माता रत्नमयं स्वर्णमयं रौप्यमयं चेति प्राकारत्रयमत्युज्ज्वलं विलोकयन्ती विस्मिता व्यमृशत् अहो ! कः पुत्रः का वा जननी ? सर्वमिदं क्षणिकमेवास्ति । यत्कृते रुदती-रुदती अन्धाऽभूवम् । स तु सुपुत्रो भूत्वापि मे 348

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434