Book Title: Sukta Muktavali
Author(s): Jayanandsuri and Others
Publisher: Ramchandra Prakashan Samiti

View full book text
Previous | Next

Page 393
________________ सूक्तमुक्तावली जगत जन हरंतो एम जाणी अनाथी, व्रत ग्रहिय विछूटो जेह संसारमां थी Kn कोटिसङ्ख्याकाः सुरगणाः नराश्च यानिन्द्रादिदेवान् सेवन्ते । तेऽपि मृत्योर्भयादमुक्ता एव विद्यन्ते । एष मृत्युर्जगतो जीवानवश्यमेव संहरतीति विचिन्त्याऽनाथिमुनिः पञ्चमहाव्रतानि गृहीत्वा पालयित्वा चान्ते संसारसमुद्रान्निस्ततार ||१३|| ८- अथाऽशरणभावनोपरि- अनाधिमुनेः कथायथा-कौशाम्ब्यां पुर्यां राज्ञस्तरुणः पुत्रो महारोगेण पीडितो जातः । महावैद्यास्तस्य चिकित्सां चिरमकुर्वन्, परं मनागपि तदुपशमो नाऽभवत् । तथावस्थे तस्मिंस्तस्य माता पत्नी च भृशं दुःखार्ता रुदती शोचति । समीपस्था भगिनी जल्पति - हे भ्रातः ! निजवेदनां मे देहि, त्वं सुखी भव । परं मातृकलत्र - मित्रादयोऽपि सर्वे विफलप्रयत्ना । जाताः, कोऽपि तं नीरोगं विधातुं न शशाक । अथैकदा तन्मनसीदृग्विचार उत्पेदे, यथा-धर्म एव सर्वेषां विपत्तौ शरणं भवति, धर्मं विना कोऽपि न त्रायते । अतो मयाऽपि स एव शरणीकर्त्तव्यः, इति सुनिश्चित्य निशि स सुष्वाप, प्रभाते चोत्थितः स रोगमुक्तमात्मानं विलोक्य जहर्ष । राजकुमारं स्वस्थं विलोकयन्तः सर्वेऽपि जनाः प्रमोदमेदुरा अभूवन् । प्रवर्तमाने च मङ्गलवाद्ये स राजकुमारः पञ्चमुष्टिलुञ्चनं विधाय कलत्रादिपरिवारैर्निवारितोऽपि जगाद 352 भोः परिवार ! समाकर्णय-समाकर्णय, भवत्सु सर्वेषु सत्स्वपि

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434