________________
सूक्तमुक्तावली
जगत जन हरंतो एम जाणी अनाथी, व्रत ग्रहिय विछूटो जेह संसारमां थी
Kn
कोटिसङ्ख्याकाः सुरगणाः नराश्च यानिन्द्रादिदेवान् सेवन्ते । तेऽपि मृत्योर्भयादमुक्ता एव विद्यन्ते । एष मृत्युर्जगतो जीवानवश्यमेव संहरतीति विचिन्त्याऽनाथिमुनिः पञ्चमहाव्रतानि गृहीत्वा पालयित्वा चान्ते संसारसमुद्रान्निस्ततार ||१३||
८- अथाऽशरणभावनोपरि- अनाधिमुनेः कथायथा-कौशाम्ब्यां पुर्यां राज्ञस्तरुणः पुत्रो महारोगेण पीडितो जातः । महावैद्यास्तस्य चिकित्सां चिरमकुर्वन्, परं मनागपि तदुपशमो नाऽभवत् । तथावस्थे तस्मिंस्तस्य माता पत्नी च भृशं दुःखार्ता रुदती शोचति । समीपस्था भगिनी जल्पति - हे भ्रातः ! निजवेदनां मे देहि, त्वं सुखी भव । परं मातृकलत्र - मित्रादयोऽपि सर्वे विफलप्रयत्ना । जाताः, कोऽपि तं नीरोगं विधातुं न शशाक ।
अथैकदा तन्मनसीदृग्विचार उत्पेदे, यथा-धर्म एव सर्वेषां विपत्तौ शरणं भवति, धर्मं विना कोऽपि न त्रायते । अतो मयाऽपि स एव शरणीकर्त्तव्यः, इति सुनिश्चित्य निशि स सुष्वाप, प्रभाते चोत्थितः स रोगमुक्तमात्मानं विलोक्य जहर्ष । राजकुमारं स्वस्थं विलोकयन्तः सर्वेऽपि जनाः प्रमोदमेदुरा अभूवन् । प्रवर्तमाने च मङ्गलवाद्ये स राजकुमारः पञ्चमुष्टिलुञ्चनं विधाय कलत्रादिपरिवारैर्निवारितोऽपि
जगाद
352
भोः परिवार ! समाकर्णय-समाकर्णय, भवत्सु सर्वेषु सत्स्वपि