________________
सूक्तमुक्तावली
दीत् । तदनु सर्वाभरणानि शरीरतोऽपनीय सर्वामपि पौद्गलीं मायामर्थात्शरीरमिदं यद्-भूषणवसनादिना शोभते, तदनित्यमेवेति भावनां भावयामास । इत्थं भावयतस्तस्य कैवल्यमुदपद्यत तत्रावसरे शासनदेवता तस्मै साधुवेषमशेषं दत्तवती ।
तदनु स चक्री त्यक्तराज्यो दशसहस्रराजन्यैः सह विजहार । अथ महीं पावयन् भव्यजीवान् प्रतिबोधयन् पूर्णे चायुषि शाश्चतसुखप्रदां मुक्तिस्त्रियं भेजे । अहो ! भरतचक्रवर्ती त्वनित्यत्वभावनाबलादेव स्वेष्टमसाधयत् । तथैवान्येऽप्यनित्यमसारञ्च संसारं भावयन्तु, यस्मादात्महितं जायेत ।
I
६ - अथाऽशरण २ भावना - विषये - परम पुरुष जेवा संहरे जे कृतान्ते, अवर शरण केनूं लीजिये तेह अन्ते । प्रिय सुहृद कुटुम्बा पास बैठा जिकोई, मरण समय राखे जीवने ते न कोई
॥१२॥
यदि महापुरुषास्तीर्थङ्करचक्रवर्तिप्रभृतयोऽपि यमराजेन संहृतास्तर्हीदृशः को द्वितीयो योऽन्तकालेऽस्माकं शरणप्रदो भवेत् ? अपि तु न कोऽपीत्यर्थः । अपरञ्चाऽन्तसमये मातृ-पितृ-भ्रातृ - मित्रादीनां संबन्धिनां पुरत एवाऽयं संसारी जीवो गच्छत्येव भवभ्रमणार्थम्, परं तत्काले न कोऽपि तस्य त्राता भवति । अतः सर्वानुगो धर्म एवाऽऽश्रयणीयस्तं मुक्त्वा शरणभूता नाऽन्या कापि गतिः ||१२|| सुर- गण नर कोडी जे करे जास सेवा, मरण भय न छूटा तेह इन्द्रादि देवा ।
351