________________
सूक्तमुक्तावली अथोत्तरदक्षिणदिक्षु तमिस्रागह्वरद्वारमुद्घाट्य म्लेच्छैः सह द्वादशवर्षाणि घोरं समरं विधाय तांश्च जित्वा षट्खण्डां महीं संसाध्य गङ्गातीरमागत्य तस्थौ । तत्र च वर्षसहस्रं स्थित्वा परावर्तमानस्य तस्य चक्रिणो नवनिधयः प्रकटीबभूवुः । तदर्थं चक्री तत्र महोत्सवं विततान तानि च नवनिधानानि द्वादशयोजनलम्बितानि, नवयोजनोच्छ्रितानि भूमौ चलन्ति तानि च पेटिकाकारेण चक्रवर्तिगृहद्वारे तिष्ठन्ति । परं तेषु पुरापि केचन चक्रिनिधाने न प्रविविशुन वा प्रवेष्टारः सन्ति ।
इत्थं तस्य चक्रिणः कनकरजतरत्नाकराणां विंशति-विंशतिसहसं विद्यते । षट्खण्डानां साम्राज्यस्येश्वरः । पञ्चविंशतिसहस्रदेवसेवकाः | तादृशी प्रभुता तुकस्याऽपि न भवति । अष्टचत्वारिंशत्सहस्र 'पत्तनं, महानगराणि च द्विसप्ततिसहस्राणि, सहस्राणां विंशतिः खेटक एवं कर्बट-मण्डप-द्रोण-प्रमुखग्रामाणां षण्णवतिकोटिरासीत् । तथा चतुरशीति-चतुरशीति लक्षप्रमाणं गजतुरगरथं, षण्णवतिकोटिः पदातीनां, पण्डितानां षष्टिसहस्रं,ध्वजिनांदशकोटिरभूत् । पञ्चलक्षाणि महादीपकधरा, लक्षाधिकद्विनवतिसहस्रं दाराणामासन् । देशानां द्वात्रिंशत्सहस्रं बभूव चैवं द्वात्रिंशत्सहस्रं मुकुटबद्धानां माण्डलिकभूपालानामादेशकारिणां, ईदृशीं महतीमनन्यसाधारणांसमृद्धिमापन्नो भरतचक्रवर्ती सोऽयोध्यामागतवाँस्तत्र च द्वादशवर्षाणि महामहं प्रावर्तयत चिरं षट्खण्डामिमां महीमन्वशात् ।
अथैकदा स चाऽऽदर्शभवने सुखासीनो दिव्याम्बराभरणमण्डितात्मा तनुच्छविं पश्यन् भूषणविहीनामगुलीमशोभनामवे
350