________________
सूक्तमुक्तावली संदेशमात्रमपि न प्रेषीदत एनमसारं संसारं धिगस्तु । एकपक्षस्य रागेणाऽप्यलमित्थं सद्भावनां भावयन्ती सा मरुदेवी गजारूढेवाऽन्तकृत्केवलज्ञानमासाद्य मोक्षमध्यगच्छत् । तदैवेन्द्रस्तत्रागत्य मरुदेवीतनुंक्षीरसागरे स्नापयित्वा संश्चक्रे । पुनर्भरतचक्रिणा सहेन्द्रस्तत्र समवसरणे समागात्तत्र च प्रभुमभिवन्द्य तदीयदेशनामृतं निपीय भरतचक्री वीतशोकोऽभवत् । अथ देशनान्ते श्रावकीयं सम्यक्त्वव्रतं प्रतिपद्य निजालयमागतवान् ।
तदनु चक्रस्याऽष्टाह्निकं महोत्सवं प्रावर्तयत, पूजान्ते च तच्चक्रं व्योम्नि पूर्वस्यां दिशि चचाल । ततश्चतुरङ्गबलमादाय प्रस्थितो भरतचक्री प्राच्यसागरतीरमागत्य तस्थिवाँस्तत्राऽप्यष्टमं तपो विदधे मागधतीर्थेशदेवं च भृशं ध्यातवान् । अथ रथारूढश्चक्री समुद्रे रथनेमिनाभिपर्यन्तं रथं स्थापयित्वा स्वनामाङ्कितं बाणमेकं मुमोच । स चाऽष्टचत्वारिंशत्क्रोशपर्यन्तं गत्वा सिंहासनेऽलगत्तमभितोऽनिमुद्गिरन्तमालोक्य देवश्चुकोप ।
तदा प्रधानोऽवदत्- स्वामिन् ! अलमिदानी कोपाटोपेन, प्रथममेनं नामाकितं बाणं पश्य त्वत्तोऽपि बलीयस एष प्रतिभाति । ततो देवो नाम वाचयित्वा भरतश्चक्रवानभूदिति विवेद । अथशान्तकोपो देवोऽतिसारभूतरत्नजातमुपायनमादाय तत्रागतो भरतचक्रिणं नमश्चक्रे प्रामृतवांश्च तत्सारभूतं रत्नजातम् । तदनु स एवमवदत्- हे स्वामिन्! एतावद्दिनमहमनाथ आसंपरमद्यप्रभृति सनाथोऽभूवम् । अथ चक्रवर्तिना तत्पृष्ठे हस्तो दत्तस्तेनातिप्रीणितो देवः स्वस्थानमगमत् । चक्री ततोऽष्टमतपसः पारणमकरोत् ।
-349