________________
सूक्तमुक्तावली समृद्धिञ्च सुवैराग्येण त्यक्त्वा मनो योगे योजितम् ।।११।।
७- अथाऽनित्यभावनया व्यक्तदेहाभिमानस्य
भरतचक्रवर्तिनः कथायथा राज्यसुखं भुञ्जानस्य भरतचक्रवर्तिनश्चक्ररत्नमुदपद्यत तथाऽऽदीश्वरभगवतः केवलज्ञानमजायत । एकदैव कार्यद्वयस्य वर्धापनं भरताय समागतमिति मुदितो राजा ताभ्यां नराभ्यां प्रचुरं दानमदत । ततो मनसि दध्यौ- यदिदं चक्ररत्नमुत्पेदे तदत्रैव फलदम् । तात ऋषभदेवस्वामी तु लोकद्वयेऽपि निःसीम-फलदायी, ततो मया प्रथम तद्भक्तिरेव विधातव्येति विचार्य मरुदेवीमातरं गजोपर्युपावेश्य भरतचक्रवर्ती प्रभोर्वन्दनायै चचाल |
या मरुदेवी माता पुरा पुत्रस्य ऋषभदेवस्य विरहादनिशं रुदती वर्षमेकं व्यतीयाय । सैव तस्य वन्दनायै यान्ती देवदुन्दुभिस्वनमाकर्ण्य भरतमपृच्छत्- हे भरत ! वाद्यानामीदृग्मधुरध्वनिः कुत्र जायते ? किमस्ति तत्र ? येनेदृशोऽश्रुतपूर्वोऽपूर्वो वाद्यध्वनिः श्रूयते?
तदा भरतोऽवदत्-हे मातः! यत्त्वंपुरा ममोपालम्मंददानाऽऽसी:, यथा- हे भरत ! त्वं नूनं राज्यसुखलुब्धोऽभूः । यदृषभस्य शुद्धिं न कुरुषे तस्यैव त्वत्पुत्रस्यैषा सम्पत्तिरस्ति । नयनयुगलमुन्मील्य पश्यपश्य, इत्याकर्ण्य हर्षोत्फुल्लोचना मरुदेवी माता रत्नमयं स्वर्णमयं रौप्यमयं चेति प्राकारत्रयमत्युज्ज्वलं विलोकयन्ती विस्मिता व्यमृशत्
अहो ! कः पुत्रः का वा जननी ? सर्वमिदं क्षणिकमेवास्ति । यत्कृते रुदती-रुदती अन्धाऽभूवम् । स तु सुपुत्रो भूत्वापि मे
348