________________
सूक्तमुक्तावली ६-अथ संसारमनित्यं स्वप्नवत्तत्र भिक्षोः
__ कथानकम्यथा-कस्यचदेकस्य कौटुम्बिकस्य गृहे रात्रौ दधिभाजनमनावृतमासीदिति प्रभाते भोक्तुं त्यक्तुं वाऽनिच्छन् कञ्चन् भिक्षुमालोक्य तस्मै तद्दधि दत्तवान्, सोऽपितदादाय तडाकपाल्यांघनच्छायातरुतले काममभुङ्क्त । तद्भक्षणात्तत्रैव स चिरं गाढनिद्रामभजत् ।
अथ सुषुप्तिसमये राज्यसुखमन्वभूत, यथाऽहं नृपोऽभवम् । अप्सरस इव दिव्याङ्गना मामुपासते । मन्त्रिप्रमुखाः सर्वे सदसि तिष्ठन्ति, चतुरङ्गीसेना च महती लब्धाऽस्ति, गजतुरगरथपत्तिसमूहादिकमनेकमस्ति, इत्थं स्वप्रे मनोराज्यं कुर्वन् स भृशममोदत । तावत्तत्र मेघो जगर्ज, तेन तदैव तस्य जागृतिर्जाता, ततः कामपि राज्यसमृद्धिं नाद्राक्षीत् केवलं खर्परं दण्डं जीर्णकन्यां चैतत्त्रयमेव स्वाग्रे व्यलोकत। यथा स भिक्षुर्मुधा स्वप्रप्राप्तया राज्यसमृद्ध्या मुमुदे । तथैवाऽज्ञा अपि जीवाः पुत्रकलत्रधनादौ मुधैव मोदन्ते । धरणि तरु गिरिन्दा देखिए भाव जेई, सुरधनुष परे ते भंगुरा भाव तेई । इम हृदय विमासी कारमी देह माया, तजिय भरतराया चित्त योगे लगाया
॥११॥ किञ्च-संसारेऽत्र ये ये जीवादितरुभूधरप्रमुखचराचरा भावा दृश्यन्ते, ते सर्वे जलबुबुदोपमाः क्षणभङ्गुरा एव प्रतीयन्ते, इति विचारयता विदुषा जनेन देहमायां विहाय चित्तं समाधौ योज्यम् । यथा भरतचक्रवर्तिना शारीरिकी मोहमायां षट्खण्डभूमिं सर्वराज्य
347