________________
सूक्तमुक्तावली भवदर्शनात्पूतोऽभवम्, अद्य मया महत्पुण्यं लब्धम् । तत्रावसरे मृगो दध्यौ-यद्यहमद्य मनुष्योऽभविष्यं तर्हि ममाऽपीदृशो लाभोऽभविष्यत् । संसारे मानुषं जन्म धन्यमस्ति मया किं पापं कृतं भवान्तरे यत्तिर्यक्त्वमवाप्तम् । इत्थं स भावयन्नेवासीत्तावत्तत्र महावातोद्गमादकस्मादर्धच्छिन्नो महातरुत्रयाणां मुनिसूत्रधारमृगाणामुपरि पपात । ततस्ते त्रयोऽपि सद्ध्यानेन मृत्वा पञ्चमब्रह्मदेवलोके देवत्वेनोत्पेदिरे। अथ ५-द्वादशभावनासु प्रथममनित्यभावनामाहधन कण तनु जीवी बीज-झात्कार जेवी, सुजन तरुण मैत्री स्वप्र जेवी गणेयी । अहव मगनताए मूढता कांई माचे ?, अथिर अरथ जाणी एणसुं कोन राचे ? ॥१०॥
अहो भव्यप्राणिन ! कीदृशः संसारो वर्तते यत्र प्रतिपलमायुः क्षयति । तडिदिव लोकानामायुश्चञ्चलं प्रतिभाति । एवं पुत्रकलत्रपितृमातृसुहृदादिकुटुम्बवर्गोऽपि सर्वः स्वपोपमो भाति । तथाऽप्यज्ञा जीवा अस्थिरमपि जगत्सुस्थिरं मन्यन्ते । धनजीवनयौवनादिस्थैर्य जानाना भ्रान्ता एतान् विषयान् सेवन्ते । ज्ञाततत्त्वास्तु तत्सर्व स्वप्रवत्पश्यन्ति, अतो नैतेषु सञ्जन्ते ||१०||
346