________________
सूक्तमुक्तावली ५-अथ सिंहादिपशूनपि प्रतिबोधयतस्तस्य
बलदेवमुनेः कथानकम्यथैकदा वने कृष्णे कालं गते सद्वैराग्येण सह बलदेवश्चारित्रं ललौ, परमेतस्य तनुश्रियाऽनुपमयैकदा मध्याह्नसमये गोचर्यै नगरमागच्छतः कूपान्तिके स्थिता काचित्कान्ता तद्रूपमोहमुपगता तेनान्यमनस्का घटभ्रान्त्या निजशिशोः कण्ठे रज्जुं दृढं बद्ध्वा यावदधः पातयितुमुद्यताऽभूत् । तावत्तदद्भुतमकार्य विलोक्य बलदेवमुनिस्तामवोचत- अरे ! एतत्किं करोषि ? ततस्तया तदबोधि । ततः सा शिशोर्गलाद्रज्जुमपनीय घटमबध्नात् ।
स मुनिरपि "मद्रूपावलोकनादियं स्त्रीदमकृत्यमकरोत, अतो मया नगरे नागन्तव्यं, वन एव यदा यल्लप्स्यते, तदा तेनाहारेण पारणं विधातव्यमन्यथा तप एव कर्तव्यमिति" निश्चित्य वन एव ततःप्रभृत्यतिष्ठत् । अथातुलतपोबलप्रभावतः शशक-हरिण-सूकर-गज-व्याघ्रसिंहादयोऽपि तदीयदेशनां प्रत्यहमाकर्णयन्तो मांसादिभक्षणं प्रत्याचख्युः । ___ अथैकदा तत्र कश्चित्काष्ठच्छेदी समुपागत्य सत्काष्ठानि छेत्तुंलग्रः | साते च मध्याह्नेऽर्द्धच्छिन्नमेकमहातरुं समाश्रित्य तदधः खाद्यं पक्तुं लगः । तत्र पाकधूममालोक्य कश्चन शुभोत्तरसमयः सुश्राद्ध इव मृगो मुनेरग्रे पुच्छमकम्पयत् । तदा मुनिरपि पात्रमादाय तेन सह तत्राऽऽगात्।
सोऽपि मुनिमायान्तमालोक्य सहसोत्थाय मुनेरभिमुखमागत्य तं प्रणम्य समभ्यार्थयत- स्वामिन् ! एहि, अद्य मे जन्म सफलं जातं,
-345