________________
सूक्तमुक्तावली आज्ञा जेणे तात केरी न लोपी । ते धन्या जे अंजना पुत्र जेया, जेणे कीधी जानकीनाथ सेवा
તરરા पुरा गङ्गापुत्रो भीष्मपितामहः पितुरादेशे स्थित्वा जगत्यचलं यशस्तम्भ समारोपितवान् । एवमञ्जनापुत्रो हनुमान् सीतापतेः सेवारतो लङ्कां भस्मसादकरोत् । श्रीरामचद्रस्य दौत्यमभजत प्रान्ते च हनुमान कुमारो मोक्षं गतवान् । ईदृशः सुविनीतः सुपुत्रः प्राक्तनपुण्यैरेव प्राप्तुं शक्यते । ईदृशः सुपुत्र एव सः सत्पुरुषैर्धन्यवादार्हो जायते । अञ्जनाया हनूमतस्तत्पितुश्च सविस्तरं कथानकमत्रैव धर्मवर्गे सज्जनतोपर्येकविंशतितमेऽञ्जनाप्रबन्धे लिखितमस्ति, तत एव द्रष्टव्यम् ||२२||
१३-अथ सुपुत्रोपरि गाङ्गेयकुमारस्य
कथानकम्पुरा किलेह भारते शान्तनुनामा राजा गङ्गानाम्नी तस्य पत्नी चाऽऽसीत् तयोर्गाङ्गेयनामा पुत्रो जज्ञे । अथैकदा नृपो वने क्रीडितुं गच्छन् पथि गङ्गानदीतीरे समुपाविशत् । तावत्तत्र नद्यां पोतं वाहयन्तीमतिरूपवतीं तारुण्यशालिनी धीवरसुतामपश्यत्तस्याञ्च महीपतेः शान्तनोर्महान् राग उदियाय । तद्रूपमोहितः स एकपदमपि गन्तुं न शशाक | तथापि कथमपि स्वालयमागत्य मन्त्रिणमाहूय तवृत्तमवदत्- भोः प्रधान ! त्वं तत्र याहि । तं धीवरं तथा कथय यथा स निजपुत्री सत्यवती रत्नवती मे दद्यात्तां विना किमपि मे न रोचते।
324