SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली अन्यथा मम जीवितेऽपि संशयमवेहि । अथ तदैव मन्त्री तदन्तिकमागत्य धीवरं कन्यामयाचत । सर्व निशम्य स मत्स्यजीवी बभाषे- हे प्रधान ! तवोक्तं सत्यमस्ति । इमां कन्यामपि दित्सामि परन्तु तव स्वामिनो राज्ञो गाङ्गेयनामैकः पुत्रो विद्यते, स एव राज्यं ग्रहीष्यति । मदीयदौहित्रो राज्यं न प्राप्स्यति, मम पुत्र्यपि यावज्जीवं सपत्नीदुःखेन निजतनयस्य राज्यानधिकारित्वेन च दुःखमेवानुभविष्यति । अतो राजा मदीयदौहित्राय राज्यमिदं प्रदातुमिदानीमङ्गीकुर्यात्तर्हि सुखेन तस्मै पुत्रीमिमामहं दद्याम् । अन्यथा नेति तद्वचः श्रुत्वा तत आगत्य नृपाय सर्व व्यजिज्ञपत्। ततस्तदतिदुष्करं मत्वा शान्तनुः किङ्कर्तव्यतामूढो नितरामौदास्यमभजत् । अथ सभायामासीनमुदासीनं पितरं दृष्ट्वा गाङ्गेयोऽपृच्छत्हे पितः ! अद्य त्वं विच्छायवदनः कथं लक्ष्यसे ? तव किमभूत्तन्मे कृपया ब्रूहि, यदहं तत्प्रतिक्रियां कुर्याम् । अथ राज्ञा तत्स्वरूपे यथावत्कथिते गाङ्गेयोऽवदत्-एतदतीव सुकरं वेनि । अहं सर्वसमक्षं कथयामि, तत्पुत्राय राज्यप्रदानमङ्गीकुरु पुनस्तां परिणीय सुखी भव । इत्थं भाषितेऽपि नृपेण न विश्वस्तमितीङ्गितज्ञो गाङ्गेयस्तत्कालमेव सकललोकसमक्षं पितुर्विश्वासोत्पादनाय स्वपुंल्लिगमच्छेत्सीत् । तदत्याश्चर्यं वीक्षमाणाः सकलाः जना विस्मयाविष्टा बभूवुः । ततः स धीवरो नृपाय सुतामददत तस्यां शान्तनोः पुत्रावभूतां तयोर्ध्यायान् पुत्रो राज्यमलभत । पुनः कनीयान् यौवराज्यमगात्तेन गाङ्गेयस्य जगति महती सुकीर्तिः पप्रथे । ईदृशो वशंवदः सुपुत्रः पूर्णभाग्यभाजामेव जायते। किञ्चेत्थं पितुर्मनोवाञ्छितपरिपूर्णकरणादेव 325
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy