________________
सूक्तमुक्तावली श्लोकं पठतस्तस्य सूरेनयनाभ्यामश्रूणि निर्जग्मुः । ततः सङ्घोऽपृच्छत्स्वामिन् ! चतुर्दशपूर्वधारिणस्तवेदृशो मोहः कुतः ? गुरुरवक्- भो भव्याः ! स मे पुत्र आसीत्तेन हेतुना तस्मिन्ममेदृशो मोह उत्पेदे | तदाकर्णयन्तः साधव ऊचुः- महाराज ! यदेवं पुराऽस्माभिर्जातं चेन्न तेन मलमूत्रष्ठीवनादिन्यासमकारयाम । गुरव ऊचुः- भोः साधवः ! यद्यसौ साधूनां वैयावृत्यादिकं न कुर्यात्तर्हि कथमस्येष्टं सिध्येत् ।
अहो ! पश्य पश्य यदीदृशां श्रुतकेवलिमहापुरुषाणामपि सुतस्नेह ईदृशोऽजायत, तर्हि छद्मस्थजीवानां तदुद्गमो भवेदत्र किञ्चित्रम् ? अतो मोहः श्रेयोऽर्थिभिः सर्वथैव त्याज्यः । तस्मिंस्त्यक्ते सत्येव जीवाः सुखिनो जायन्ते । अन्यथाऽस्मिन्संसारेऽतिभ्रमन्ति मुह्यन्त्येव । अनेन प्रबन्धेन पितापुत्रयोरीदृशः स्नेह इति ज्ञातव्यम् ।
अथ ७-पुत्रवर्णन-विषये स्वागता-छन्दसिमाय ताय पद पंकज सेवा, जे करे तस सुपुत्र कहेया । जेह कीर्ति कुल लाज वधारे, सूर्य जेम जगि तेज सवारे
॥२१॥ यथेह विनयवान् सुपुत्रो नित्यं मातापितरौ सेवते, तथा कुलवान् लज्जालुर्भवति । तस्य सर्वत्र सुकीर्तिः प्रख्यातिमेति, कुलं शोभयति सूर्य इव तेजस्तस्यैधते ।।२१।। ईदृशः सुपुत्रः कोऽभूदिति जिज्ञासोदयादाह
शालिनी-वृत्तेगंगापुत्रे विश्वमां कीर्ति रोपी,
-323