________________
सूक्तमुक्तावली आवामन्यन्न किमप्यवोचाव । ततो यज्ञस्तम्भुत्पाट्य तदधः श्रीजिनेन्द्रबिम्बं तौ मुनी अदर्शयताम् । ततस्तेन संजातप्रतिबोधः स्वपत्नी गर्भवतीं हित्वा शय्यम्भवः प्रवव्राज । निरतिचारं चारित्रमवन् शिक्षितसाध्वाचारविचारोऽनुक्रमादाचार्यपदमाप |
इतश्च गृहे तत्पत्नी नवमे मासि पुत्रं प्रासोष्ट, तदीयं नाम 'मनक' इति चक्रे । लोका ऊचुः-यदीदानीमस्य पिता गेह अभविष्यत्तर्हि सम्यग जन्मोत्सवमकरिष्यत् ।
अथाऽनुक्रमेण वर्द्धितः संस्कृतश्च स शिशुर्मातुर्मुखात्पितुः स्थितिं निशम्य मातरमापृच्छ्य यत्र नगरे तत्पिता शय्यम्भवसूरिरासीत्तत्रागात् । तत्र च तस्मिन्नवसरे स्थण्डिले गच्छतस्तस्य मात्रोक्तसुलक्षणेन तं स्वपितरमुपलक्ष्य तच्चरणे स मनकशिशुः पपात । तदा सूरिः श्रुतज्ञानयोगात्तमुपलक्ष्य पृष्टवान्- भवान् कोऽस्ति, कुत आगम्यते ? मनकोऽपि स्ववृत्तमाद्यन्तं तस्मै निवेदितवान् । सूरिणोक्तम्- भो वत्स ! त्वया कस्याऽप्यन्यस्याऽग्रे एष आवयोः संबन्धो न वाच्यः, पुत्रोऽवक्- तथास्त्विति ।
अथ तदैव स्थण्डिलान्निवृत्तः सूरिस्तमुपाश्रये समानीतवान् पुनस्तं शीघ्रमेव दीक्षां ददौ । ततस्तत्राऽप्यागमज्ञानेन तस्यासन्नकालं ज्ञात्वा दध्यौ-आयुश्चास्यात्यल्पीयः । अनेन गतायुषा किमपि पठितुंन शक्यते । अतस्तदुद्धारहेतवे प्रातरारभ्य सन्ध्यापर्यन्तं दशभिरध्ययनैरलङ्कृतं दशवैकालिकं सूत्रं निर्मितवान् । तच्च षड्भिर्मासैः सोऽध्यगीष्ट संपूर्णं, ततः क्षीणायुः स ममार |
श्रावकाश्च तस्याग्रिसंस्कारं विधायोपाश्रयमैयुस्तत्रावसरे 322