________________
सूक्तमुक्तावली मार्गयामासुः परं कुत्रापि तन्न लेभिरे | ततो राजा स्वयमेव मातुः पार्थमागत्य तदयाचत, परं माता जगाद- हे पुत्र ! तव पितैव मृतोऽस्ति, राज्ञापि तदुक्तं साधु मेने । पुनश्चक्रवर्ती सभामागत्य तदीयशोकापनोदाय द्विजमेवमुवाच- हे द्विज ! संसारचक्रे समागतो जीवः सर्वोऽपि म्रियत एव । यदेतज्जगदनित्यं गीयते, भावी केनाऽपि रोढुं न शक्यते, अतः शोकं त्यज, अस्य चोत्तरक्रियां विधेहि ।
तच्छ्रत्वा द्विजो जगाद-'परोपदेशे पाण्डित्यं, सर्वेषां सुकरं नृणाम्' इत्यस्योदाहरणं मा भूः यदुदीरितं तत्त्वयाऽपि परिपाल्यमेव । भवतामपि षष्टिसहस्रपुत्रा नागदेवेन भस्मसात्कृताः । अथैतद्वज्रपातोपमगिरमाकर्णयन्नेव नृपेन्द्रो मूर्छामापन्नो विचेतनो भूमौ पपात । तदनु कृतनानाविधशीतलोपचारेण लब्धचेतनो भृशंशोचन विलपंश्च चक्रवर्ती प्रकटितस्वरूपेणेन्द्रेण गतशोको विदधे | ततः स्वर्लोकमागात् । ततः सगरचक्रवर्ती निजपौत्राय भगीरथाय सेनाऽऽधिपत्यमदादिति पुत्रमोहाधिकारो दर्शितः । १२-अथ शय्यम्भवसरितत्पुत्रमनकयोः कथा___ यथेह पुरा श्रीवीरप्रभोः पट्टे श्रीसुधर्मस्वामी स्थापितस्तत्पट्टे श्रीजम्बूस्वामी, तत्पट्टालङ्कारी श्रीप्रभवस्वाम्यभूत् । स हि प्रान्ते निजपट्टालङ्कारियोग्यंकमपि यदा जिनशासने नाऽपश्यत्तदा लब्धिप्रयोगेण शय्यम्भवनामानं द्विजवरं यज्ञं विदधतं सूरियोग्यतमं मत्वा तत्प्रतिबोधाय द्वौ मुनी तत्पार्थे प्राहिणोत् । तौ तत्र गत्वा जगदतुः"अहो ! कष्टं महाकष्टं तत्त्वं न ज्ञायते त्वया" तयोरेतद्वचो निशम्य शय्यम्भवोऽपृच्छत्- भो मुनी ! युवाभ्यां किमुच्यते ? तावूचतुः
321