________________
सूक्तमुक्तावली नृपेन्द्राः प्रधानादयश्च दध्युः-अधुना किङ्कर्त्तव्यम् ? कुमाररक्षार्थं वयं सर्वे राज्ञा प्रेषितास्तांश्च नागदेवो भस्मीचक्रे । यद्येतद्राजानं निवेदयिष्यामस्तर्हि कथयिष्यति स यन्मृतेष्वस्मत्पुत्रेषु भवन्तो जीवन्तः कथमत्रागताः ? अतोऽस्माभिर्नृपान्तिकं न गन्तव्यमिति निश्चित्य ससैन्यास्ते ततो निर्गत्य ग्रामतो बहिरेव कुत्रापि तस्थुः । । ____ अत्रान्तरे चक्रिप्रबोधाय सौधर्मेन्द्रो ब्राह्मणरूपं कृत्वा मृतं बालकं स्कन्धे निधाय नगरान्तश्चतुष्पथे तिष्ठन् भृशं रुदन्नतिव्यलपत्हा दैव ! ममैक एव पुत्र आसीत् सोऽपि सर्पदष्टो ममार | किङ्करोमि? क्व गच्छामि? कथं वा जीवेयम् ? इत्थं विलपन् स लोकर्मणितः- भो द्विज ! कदा कुत्र कथं वाऽहिना दष्टो मृतश्च ते शिशुः ? द्विजोऽवक्भो भो लोका ! भवन्तस्तदुपायं जानन्ति चेत्तर्हि वदन्तु अन्यदिदानी मुधा किं पृच्छन्ति ? लोका ऊचुर्भो विप्र! शोकं मा कार्षीः, राजसमां व्रज। तत्र राजीकयाः षष्टिसहस्रमहाभिषग्वरास्तिष्ठन्ति । तेऽवश्यमेनं जीवयिष्यन्ति ।
अथ राजद्वारि समेत्य स भृशं विलपन् रुदंस्तस्थौ । अथ नृपाहूतः स सभामागत्य सर्व राजानं समाख्यत् । तदा चक्रवर्युवाचभो वैद्याः ! यूयं कमप्युपायं कुरुत यथैष मृतो बालको द्रुतं जीवेत, तच्छ्रुत्वा सर्वे वैद्याश्चिन्तोदधौ बुडिताः । यद्वयं मृतं केनोपायेन जीवयामः । पुनस्ते चिरं विमृश्य नृपाय जगदुः-भो राजन् ! यस्य गृहे कदापि कोऽपि न मृतो भवेत्तद्गृहचुल्लिकाभस्म यद्यागच्छेत् तर्हि मृतोऽस्य विप्रस्य शिशुः पुनर्जीवेत् ।
अथ नृपादेशाबहवो लोकाः प्रतिगृहं गत्वा तादृशं भस्म 320