________________
सूक्तमुक्तावली
पुत्रमोहवशङ्गताः पुत्राणां यदिष्टं तदेव चक्रुः ||२०||
ॐ
११ - अथ सगरचक्रवर्तिनः षष्टिसहस्रतत्पुत्राणाञ्च कथा
T
इह हि सगरचक्रवर्तिनः षष्टिसहस्रपुत्रा अभूवन् । तेऽष्टापदतीर्थस्य रक्षार्थमभितः परिखाकारं गतं कर्तुं प्रावर्तन्त । तदालोक्य ज्वलनप्रभनामा नागदेवस्तानवादीत् - भोः सागरा ! यूयमत्र महागर्तं खनथ तेनाऽस्मद्भुवने रजांसि पतन्ति, अत एतत्कर्मणो विरमध्वम् । तदानीं तत्कथनान्ते तत्कृत्यं ते तत्यजुः ।
अथ कियत्कालानन्तरं पुनस्ते दध्युः - याऽस्माभिर्महता परिश्रमेण परिखा खनिता साप्यधुना जलं विना विनङ्क्ष्यतीति सा जलैराशु परिपूरणीया । यथा कोऽप्यस्य तीर्थराजस्याऽऽशातनां न कुर्यात् इत्यवधार्य कृतैकमतिकास्ते निजदण्डयोगतः सार्धद्वाषष्टियोजनानि यावत्तत्र स्वकृतमहागर्ते गङ्गाप्रवाहमानिन्यिरे । तेन वै कियन्तो नगरा देशाश्च जलनिमग्ना अभूवन् ।
अथ गङ्गाम्भसा भृतां तावतीं परिखामालोक्य तेन वारिणा बुडितप्रायं निजभुवनञ्चोद्वीक्ष्य सञ्जातकोपः स नागदेवो निजमनस्यवदत्- अहो ! मया पुरा वारिता अप्यमी न नयवर्तन्त । समीहितञ्च साधितमेव, अत एतान् भस्मसाद्विधाय सुखी स्यामिति निश्चित्य तत्रागत्य तानालोक्य विषाग्नियोगादेकदैव तान् सर्वान् भस्मसादकरोत ।
अथ भस्मीभूतेषु सकलेषु कुमारेषु तत्सार्धमागता द्वात्रिंशत्सहस्र
319