________________
सूक्तमुक्तावली तन्नामग्रामादिकं पप्रच्छ । अभयकुमार आद्योपान्तं स्ववृत्तमाचचक्षे । तदनु सादरं तां निजप्रेयसी निजसदनं प्रावेशयद् अभयकुमारञ्च मन्त्रिपदे न्ययुक्त । ततःप्रभृति सकलं राज्यभारं गृहीत्वा न्यायतः प्रजाः पालयन् सुखमन्वभूदभयकुमारः । नृपोऽपि मन्त्रिणि महामतिमति तस्मिन्नभयकुमारे सकलराज्यकार्यधुरन्धरे सति निजप्रेयस्या सह भोगं भुजानः सुखी बभूव । सर्वत्राऽभयकुमारस्य सुकीर्तिः प्रससार।
अस्मिन्नवसरे तत्र नगरे कुत्रचिदुपवने वीरजिनेवरो भगवानाययौ, देवैः समवसरणमकारि । तत्रोपविष्टः प्रभुर्देशनामारब्धवान् । तदागमनवर्धापनं वनपालको राज्ञेऽददत् । तन्निशम्य मुदितो नृपस्तस्मै घनंधनं प्रायच्छत्तदैवाऽभयकुमारादिपरिवारैः सह श्रेणिको नरनायकस्तं वन्दितुं तत्रोद्याने समायातस्तं वन्दित्वा देशनां शुश्राव । देशनाश्रवणतः संसारमसारं जानन समुत्पन्नवैराग्योऽभयकुमारो दीक्षायै नृपमाज्ञामयाचत ।
हे राजन् ! इह संसारे धर्म एव सारोऽस्ति । अतोऽहं दीक्षा जिघृक्षामि तदनुज्ञां देहि । नृपोऽवक्- हे वत्स ! इदानीं तिष्ठ यदाऽहं त्वां व्रजेति कथयेयं तदा त्वया गन्तव्यमिति तातवचः श्रुत्वा विनयेनाङ्गीकृत्य स तस्थौ । कियत्यपि गते काले पुनस्तत्र चतुर्दशसहस्रमुनिमण्डलीसहितः श्रीवीरप्रभुः समायातः |
. तत्रैकः साधुर्नदीतीरे कायोत्सर्गध्यानेऽतिष्ठत् । अथ पौषमासे प्रवर्धमानशैत्ये निशि कथञ्चिन्निरावरणं चेलणाराश्याः करपद्ममतिशीतलमभूत् । तदर्दिता सा दिने महावीरप्रभुमभिवन्ध परावर्तमाना नदीतीरे यं साधुमपश्यत्तत्स्मृत्या जगौ- "अहो ! कथमेतस्मिन्
277