________________
सूक्तमुक्तावली समये स तत्र तिष्ठेत्" सुभावेनेत्याद्यालपन्तीं तामसती मन्यमानः श्रेणिकनृपः शशङ्के । नूनमेषा कमपि जारं निषेवते येन तं स्मृत्वा स्वप्रेऽप्येषा वदत्येवम् ।
अथ कथमपि रजनीं व्यतीत्य प्रभातेऽभयकुमारमाकार्य नृपस्तमादिष्टवानेवम्-भोः कुमार ! त्वमिदानीमेवान्तःपुरमशेषं दाहय । अथैवं कुमारमादिश्य राजा वीरभगवन्तं वन्दितुमगात् । इतः कुमारेणाचिन्ति- किजातं ? येन राजैवमद्याऽऽदिशतीति सुबुद्ध्या किञ्चिद्विचार्य तत्राऽन्तःपुरे समागतः, स प्रथमं सर्वा राज्ञी भवनान्तरे संस्थाप्य तदन्तःपुरमदहत् ।
इतः स राजा श्रीवीरजिनमभिवन्द्य पप्रच्छ- भगवन् ! मम महाशङ्का समुदपद्यत, सा सत्या मिथ्या वेति बुभुत्सुस्त्वां पृच्छामि यथा-मम राज्ञी शीलवती वर्तते न वा ? वीरेणोक्तम्- राजन् ! तवैषा शङ्का मिथ्या वर्तते । यतश्चेटकराजस्य सप्तापि पुत्र्यः शीलवत्यः सन्ति । अथैवमाकर्ण्य तत्कालमेव प्रभु नमस्कृत्य मन्त्रिणः कथितमादेशं निवर्तयितुं राजा त्वरया गृहमाजगाम मार्गे च कुमारमद्राक्षीत् ।
तमपृच्छत्किं भोः ! यदादिष्टमन्तःपुरं दग्धव्यमिति तत्कृतन्तु नवा? कुमारोऽवदत्-हे महाराज! भवतामादेशकरणे को विलम्बेत? यथादिष्टं तथाकृतम् । तच्छ्रुत्वा क्रुद्धो राजाऽवदद्-धिक्त्वामविचार्य कार्यकारिणम् । अहो ! ईदृशाऽन्यायं कृत्वा लज्जसे कथं नेत्याश्चर्य लगति । गच्छ, मम मुख मा दर्शय, इति वदति नृपे कुमार आह-हे पितः पुरा मे प्रव्रज्योत्सुकस्य त्वमकथयः यदा व्रजेति कथयामि तदा गन्तव्यम् । तदद्य जातं ते वचनं तेन महान्मे हर्षोऽभूत, अतस्त्वां 278