________________
सूक्तमुक्तावली प्रणमामि क्षाम्यो मेऽपराध इत्यानमन् पितरं कुमारो भगवदन्तिकं दीक्षार्थी गच्छन् राजानमुच्चैर्जगौ । हे पितः ! तेन दुःखेन स्वात्मनि मा खिद्यस्व, मम मातॄणां सर्वासां कुशलक्षेममस्ति । तच्छ्रुत्वा मुदितो राजा तं निवर्तयितुमधिकमयतत, परं संसारमसारं जानानः स नैव न्यवर्तत । तदैव जिनवीरान्तिकमेत्य दीक्षामग्रहीत् । यथावत्संयम परिपाल्य प्रान्ते शुभपरिणामेन त्यक्तदेहोऽनुत्तरविमाने समुत्पेदे | ततश्च्युत्वा महाविदेहेऽवतीर्य मोक्षमधिगमिष्यति ।
अथ २0-कला-विषयेचतुर कर कलानो संग्रहो सौख्यकारी, इण गुण जिण लाधी द्रौण सम्पत्ति सारी । त्रिपुरविजयकर्ता जे कलाने प्रसंगे, हिमकर मन रंगे ले धस्यो उत्तमाओं
॥३२॥ हे प्राणिनः! सुखेच्छा चेत्कलाविज्ञानं कुरुत । हे चतुर ! इह हि कलावतां प्राणिनामसीमानि सुखानि सम्पदश्च सकला अनायासेन जायन्ते। पश्यतद्रोणाचार्यस्य कलाविज्ञानयोगात्कीदृशी सम्पत्तिर्जाता कियती च तदीया सुकीर्तिर्लोके प्रथितेति । तथा महादेवः पुरा कलायोगाच्छिरसि वारि दधत्रिपुरं व्यजेष्ट, एवं जैनेतरग्रन्थेऽस्ति । तत एव समस्तं तद् बोधनीयम् ||३२|| १९-अथ कलावद्रोणाचार्याऽर्जुनभिल्लानां
__ कथानकम्यथा-कलावान् द्रोणाचार्यः पार्थ बाणावलीकलामशेषामशिक्षयत् । मादृशो धनुर्धरोऽन्यः कोऽपि मास्त्विति धियाऽर्जुनो
-279