________________
सूक्तमुक्तावली गुरुमवोचत-हेगुरो! मामिवाऽन्यं कमपिधनुर्विद्यां मा शिक्षयस्तेनापि तत्प्रतिपन्नम्।
अन्यदा कश्चिदिल्लः समागत्य द्रोणगुरुं महतादरेणाऽवोचत - हे गुरो ! मामपि धनुर्विद्यां शिक्षय | द्रोणोऽवक्-त्वं नीचोऽसि ततोऽहं त्वां न शिक्षयामि। तदनुस कुत्रचित्पर्वते गत्वा मृण्मयींद्रोणाचार्यप्रतिमां स्थापितवान् । प्रत्यहं तां द्रोणमूर्ति विधिना सम्पूज्य नमस्कृत्याऽभ्यार्थयत-हेद्रोणगुरो! त्वं मांधनुर्विद्यां शिक्षय। त्वत्प्रसादादागमिष्यति सकला कलेति संप्रार्थ्य तं कस्यचिदेकस्याऽऽमलकीतरोः सूक्ष्मपत्राणि लक्ष्यीकृत्य बाणेनाऽविध्यत् । इत्थं प्रत्यहं शिक्षमाणस्य भिल्लस्य षड्भिर्मासैः सकला कला स्वभ्यस्ताऽभूत्तत्तरोरेकमपि पत्रमविद्धं नावाशिषत् ।
अथैकदा पार्थस्तत्रागत्य तमपश्यत्तेन चमत्कृतः पार्थश्चेतसि दध्यौ- अहो ! केनैतानि तरुपत्राणि सकलानि शरैर्विद्धानि ? मत्परोक्षे द्रोणाचार्यः कमप्यन्यमशिक्षयत्किमेवं यावदशङ्कत तावत्तत्र स भिल्ल एवाऽऽगतस्तेन पृष्ट:-किम्भोः! त्वयैतानि दलानि विद्धानि? वनेचरोऽवदन्मयैव । पार्थः पुनरपृच्छत्- भोः ! तव गुरुः कोऽस्ति ? तेनोक्तम्- द्रोणाचार्यः ।
अथ सोऽर्जुनस्तं भिल्लं द्रोणान्तिकमनयत्कथितञ्च- भो गुरो! त्वमेतस्य मिल्लस्य धनुर्विद्यामशिक्षयः किम् ? सोऽवक्- हे पार्थ ! अहमेनं किमपि नाशिक्षयम् । जानाम्यपि न कोऽस्तीति, तदाऽर्जुनोऽपृच्छत्-भोः ! सत्यं वद, तवैतत्कला-शिक्षकः कोऽस्तीति? तेनोक्तम्हे अर्जुन ! अलीकमहं न वदामि । नूनं ममैष द्रोणाचार्य एव शिक्षकोऽस्ति ।
280