________________
सूक्तमुक्तावली तदार्जुनो द्रोणमवदत्- गुरो ! शृणोषि ? असौ किम्वक्तीति ? अथैतदाकर्ण्य भिल्लमुद्दिश्य द्रोणोऽवदत्- अरे नीच ! मुधा मन्नाम किं गह्लासि? भिल्लोऽवदद्यदि मिथ्या मनुषे तदाऽऽगच्छ, द्रोणगुरुं दर्शयामि।
तेन सह द्रोणार्जुनौ तत्रागच्छताम् । तत्र तौ भिल्लोऽवदद्भो! यस्मादहमेनांकलामशिक्षे,तंद्रोणाचार्य युवांपश्यतम्। तन्मूर्तिमालोक्य तौ मिथोऽवोचताम्-नूनमेष श्रद्धालुरस्ति । भक्तियोगादेवाऽस्येदृशी कला जाता । तत्राऽवसरे द्रोणोऽवदद्-भोः पार्थ ! अत्र को मे दोषः ? अनेन तु गुरुभक्ति विधाय स्वयमेव धनुर्विद्यानैपुण्यमवाप्तम् । तदनु तौ स्वस्थानमाजग्मतुः । इत्थमन्योऽपि यः सत्यया गुरुभक्त्या कलां शिक्षिष्यते, तस्याऽपि विद्यावश्यं फलिष्यति ।
अथ २१-मुर्खता-विषयेवचन रस न भेदे मूर्खवार्ता न वेदे, तिम कुवचन खेदे तेहने सीख जे दे। नूप शिर रज नाखी जेम मूचे वहीने । हित कहत हणी ज्यूं वानरे सुग्रहीने
॥३३॥ अहो ! मूर्खश्चातुर्यभाषितरहस्यं किमपि न जानाति । अवसरोचितमुत्तरं न कर्तुं शक्नोति, परेषां शिक्षणमपि तस्मै न रोचते । यथा कश्चन महामूर्खा राज्ञः शिरसि धूलिमक्षिपत् । यथा वा सुगृहिका पक्षिणी कञ्चन वानरं हितमुपादिशत् । तदा स मूर्खस्तस्या आलयोन्मूलनमकरोदवधीच्च ताम् । हितकारिणं सज्जनमपि मूर्ख एवमेव कुरुते । एतदेव मूर्खदृष्टान्तेन स्पष्टीकरोति ||३३||
281