________________
सूक्तमुक्तावली
|
|
२० - अथ मूर्खतोपरि वणिक्पुत्रस्य कथा - कश्चिदेको वणिक्पुत्रो जन्मतो महामूर्ख आसीत्कस्यापि हितोपदेशं न मन्यते । वस्तुनः साराऽसारतामपि नैव वेत्ति । सदैव निरङ्कुशो यथेच्छं जल्पन्कदाचिद्धसन्कदाचित्कलहेन दिनमतिवाहयति। स चैकदा मात्रैवं शिक्षितः - भोः पुत्र ! सदा सर्वोच्चैराक्रोशता त्वया गन्तव्यम् । तथा सति यत्र तत्र समुपविष्टा हिंस्राः दुर्बला वा जीवा मार्गतोऽन्यत्र यास्यन्ति । ततः प्रभृति सर्वत्र तथैव कुर्वन् स व्रजति ।
अथैकदा कोऽपि व्याधो बहून् पक्षिणः समवरुध्य क्वचिल्लीनस्तस्थिवान् । तावदुच्चैश्चीत्कारं कुर्वन् स मूर्खस्तत्राऽऽययौ । तदीयचीत्काररवमाकर्ण्य ते पक्षिणो द्रुतमेकदैव समुड्डीय पलायन्त I तदा क्रुद्धो व्याधस्तं मूर्खमधिकं जघान । अथ तं मूर्ख विदित्वा स एवमशिक्षयत्- रे मूर्ख ! त्वं सर्वत्र मौनमाधाय व्रज, यत्र यत्र यासि प्रच्छन्नं तिष्ठ ।
I
इत्थं शिक्षितो बहुप्रार्थनया मुक्तः स क्वचित्तटाकमागत्य चौरवल्लीनस्तस्थौ । अथैनं वीक्षमाणः प्रत्यहमपहृतवसनः कश्चिद्रजकश्चौरधिया तं गृहीत्वा बह्वताडयत् । असावपि मतिविकलं मत्वा तमत्यजदगदच्च- रे मूर्ख ! एवं कदापि कुत्रापि मा तिष्ठ । यत्र कुत्र च त्वं याहि तत्र त्वया स्वल्पं भवत्विति वाच्यम् ।
अथैतच्छिक्षामभ्यसन्नग्रे चलन् कस्यचिन्नगरस्य समीपमागत्याऽतिष्ठत्तत्रावसरे हालिकाः शुभमुहूर्ते शुभशकुनेन गृहान्निर्गत्य तत्र
1. परा + अय् धातु
282