________________
सूक्तमुक्तावली क्षेत्रंक्रष्टुंलग्राः, तदा तेषामग्रेतेन स्वल्पं भवत्विति मुहुरुचैरजल्पत्। ततः सर्वे कर्षका मिलित्वा भृशं तमताडयन् । अथ बहुप्रार्थितास्ते तं मुमुचुः कथितञ्चारे मतिहीन ! एवं मा वद सर्वत्र बहु भवत्वित्येव वक्तव्यम् । ___अथैतत्पदं मुहुः स्मरन्नग्रे गत्वा कुतश्चिद्ग्रामाबहिः शवमादाय समागच्छतां पुंसामग्रे बहु भवतु बहु भवत्विति तेनोक्तम् । तदाकर्ण्य तेशववाहकास्तमतितरांताडयामासुः । ततो मूर्ख ज्ञात्वाऽत्यजन्नवदश्चरे मूर्ख ! एवं मा भवतु कदापि कस्याऽपीति जल्प |
अथ ततोऽग्रे कञ्चन नगरमागतः स मूर्खः कस्यचन श्रेष्ठिनः पुत्रस्य विवाहोत्सवेधवलमाङ्गलिकगीतं वाद्यं नृत्यादिकं प्रारब्धमालोक्य तत्र स्थितानां लोकानां पुरत एवं मा भवत्विति महता स्वरेणाऽनेकधा बभाषे । तदमङ्गलमुच्चरन्तं तं द्वित्रा जना मिलित्वा यथेच्छं कुट्टितुं लग्राः । अथ तदीयदीनवचनेन सदयास्ते मूर्योऽयमिति ज्ञात्वा तत्यजुः शिक्षितश्च रे जड ! सदा सर्वेषामेवमस्त्विति ब्रूहि ।
अथ ततो निर्गत्य कस्यचिद्राज्ञो द्वारि समेत्य तस्थौ । तस्मिन्नवसरेऽन्तःपुरे परस्परं कलहायमानौ राजानावास्ताम् । तौ तमेवं सदा भवत्विति भाषमाणं वीक्षाञ्चक्राते । तदैव कुपितो राजा केनचित्पुंसा तं निजान्तिकमानाय्य ताडयामास | पश्चात्मूर्खधिया जातानुकम्पया राड्या मोचितः शिक्षितश्च-रे भाग्यहीन ! कुत्राऽपि गत्वा त्वया मौनमाश्रित्य स्थातव्यम् । यदा कोऽपि किञ्चित्पृच्छेत्तदा शनैःशनैः किञ्चिन्निगद्यमिति शिक्षयित्वा सा राज्ञी स्वपार्वे तं नियुक्तवती । 1. राजा च राज्ञी चेति राजानो इति एकशेषः
-283