________________
सूक्तमुक्तावली अथैकदान्तःपुरेऽग्रौ लग्ने झटिति तच्छमनाय राजानं तद्वक्तुं सातंप्राहिणोत् । स तु सभामागत्य तूष्णीमतिष्ठत्, कियत्कालानन्तरं राज्ञा पृष्टः स शनैः शनैस्तत्स्वरूपं कर्णे जगाद | तच्छत्वा कुपितो राजा तमाख्यत्-अरे मूर्ख ! गृहे दह्यमानेऽत्राऽऽगत्य तदैवोच्चैः कथं न जगदिथ ? रजांसि कथं नानौ चिक्षेपिथ । अतःपरं त्वया धूमे दृष्टे सति सर्वत्र धूलिः प्रक्षेप्तव्या । इत्थं तस्मै शिक्षा दत्त्वा गृहमागत्य वह्निमशीशमत् ।
अथाऽन्यदा राज्ञी स्नानानुलेपनादिकं विधाय वेणी धूपयन्ती बभूव । तस्मिन्नवसरे स कुतश्चिदेत्य राज्याः शिरसि धूमं विलोक्य झटिति तत्र धूलि प्रक्षिप्तवान् । तेन कर्मणाऽयोग्योऽयमिति मत्वा राजा तं निष्कासितवान् ।
अतो हे नराः ! ईदृशो मूर्खः सदा सर्वैरवज्ञायते । अतो वच्मिसदा सर्वैः परमार्थ विदित्वा तदुचितं विधेयम्। शैशवे सर्वरेव विद्याभ्यासे यतितव्यम्, अन्यथा यावज्जीवं मूर्खाः सन्तः क्लिश्यन्ति ।
२१-अथ पुनरपि मूर्खतोपरि
कपिसुगृहीपक्षिणोः कथायथा-कदाचित्कुत्रचिद्वने शीतबाधया वेपमानं वानरमालोक्य कृतनीडस्था काचन सुगृही-पक्षिणी जगाददो हत्था दो पाउरा, दो लोयण दो कन्न । थर थर कंपे देहडी, कर घर रखवा तन्न ॥१॥ अपि चद्वौ हस्तौ द्वौ सुपादौ च, दृश्यते पुरुषाकृतिः । शीतभीतिहरं मूढ !, गृहं किन्न करोषि भोः ?
રા
284