________________
सूक्तमुक्तावली राज्याभिषेकं कृतवान् । परं राज्यसुखमनुभवन्नपि पूर्वप्रेयसी विना तन्मनः सुखं न धत्ते । श्रेणिकगमनानन्तरं तत्पत्नी पूर्णे मासे सति समस्तसुपुण्यबुद्धिकलानिधानं सुपुत्रं सुषुवे | तस्य च दोहदानुसारादभयकुमार इति नाम धृतवती । स श्रेष्ठी तं दौहित्रं कलाचार्यतः सकलाः कलाः सर्वाश्च विद्या अशिक्षयत् ।
अथ द्वादशवार्षिकः सोऽन्यदा मातरमपृच्छत्- हे मातः ! मम पितुर्नाम किम् ? कुत्र च स गतोऽस्ति? येनाद्यावधि तन्मुखावलोकनमपि मे नाभूत्। अथैतद्वृत्तमाद्योपान्तं मातातंन्यवदत् । अथ मातामहादेशेन मात्रा सहाऽभयकुमारो राजगृहनगरमागत्य कुत्राप्यारामे तस्थौ । तत्रावसरे राजा सुयोग्यमन्त्रिपरीक्षायै कुत्रचित्कूपे जलविहीने स्वमुद्रिकां न्यस्य गदितवान्- यो हि कूपमुखे तिष्ठन्मत्करपतितां मुद्रिका हस्तेनादाय कराङ्गुलौ परिधास्यति स मन्त्रिपदं प्राप्स्यति । इति हेतोरनेके मतिमन्तो जनास्तत्र कूपे मिलिता नानोपायं विदधिरे, परं कोऽपि तथाकतुं नाऽशक्नोत् ।
__ अथ मातरं तत्रोपवने संस्थाप्य नगरं द्रष्टुमना अभयकुमार इतस्ततः परिभ्रमन कूपोपर्यागत्य लोकमुखात्तत्स्वरूपं विज्ञाय भृत्येन गोमयमानाय्य कूपान्तर्मुद्रिकोपरि निक्षिप्तवान् । तदुपरि ज्वलदङ्गार न्यासितम् । तापयोगाद् गोमयं परिशुष्कं विधाय समीपवर्तिकूपवारिणा तं कूपं भृत्वा गोमयपिण्डसंसक्तामुपर्यागतां तां मुद्रिकां गोमयान्निष्कासितवान् करागुलौ च निधाय सदसि समागत्य श्रेणिकराजानं प्रणनाम।
स नृपोऽद्भुतमपरिचितं रूपेणातिमनोहरं तं बालकं विलोक्य
276