________________
सूक्तमुक्तावली
भाषाप्रसिद्धां क्रेतुमगमत्परं कुत्रापि तेन सा न लब्धा । तदा स तत्रत्यनृपमुपहारीकृत्य प्रार्थितवान् - राजन् ! मम तेजमतुरीमृण्मयाऽपेक्षा वर्तते, प्रतिहट्टं सा मार्गिता परं कुत्रापि न प्राप्ता । तच्छ्रुत्वा तदैव तदर्थं नगरे सर्वत्र पटहो वादितो राज्ञा, परं कोऽपि तं नाऽस्पृशत्तत्रावसरे गोपालकेन जामात्रा प्रेरितो धनावहश्रेष्ठी पटहं पस्पर्श ।
तदनु तस्मै वणझारभाषाप्रसिद्धाय स गोपालकः श्रेष्ठिनः समक्षं तामेव तेजमतुरीमदापयत् । तदा श्रेष्ठी जहर्ष व्यचिन्तयच्चअहो ! पुराहमेतद्रजोधिया प्रक्षेप्तुं लग्नः । तत एवाऽद्य ममेयान् लाभो जातोऽतो धन्यो मतिमान् मे जामाता येन वारितः पुरा । तदानीं तेन प्रतिनगरं पर्यटता वणझारेण दृष्टपूर्वः श्रेणिकः समुपलक्षितः ।
अथ तेजमतुरीं लात्वा स निजस्थानमागात् । कियद्दिनानन्तरं स राजगृहं कार्यवशादागत्य श्रेणिकं शोधयन्तं राजानमवदत् - हे प्रभो ! मया श्रेणिकः कुमारः सोईग्रामे धनावहश्रेष्ठिन आपणे दृष्टः कुशली वर्तते । तन्निशम्य राजा नितरां प्रामोदत । इतश्च श्रेणिककुमारपत्नी गर्भवती जाता तस्या अभयदानदोहद उत्पेदे । ततः स तत्रत्यनृपाय रत्नाद्युपहारं दत्त्वा तदीयसाहाय्यतः स्वपत्न्या दोहदमपूरयत् ।
अथैकदा राजगृहनगरात्प्रसेनजितनृपेण प्रेषितो दूतस्तत्रागत्य श्रेणिकं न्यगदत् - भोः कुमार ! राजा वृद्धो जातस्तुभ्यं राज्यं दित्सुस्त्वां सत्वरं दिदृक्षते । अथ सगर्भां तां सुनन्दां प्रेयसीं तत्रैव मुक्त्वा तदञ्चले मगधदेशीयराजगृहनगरे निवसामीति लिखित्वा श्रेणिकः पितुरन्तिकमागतः ।
अथ प्रसेनजितो राजा शुभे मुहूर्ते महामहेन श्रेणिकस्य
275