________________
सूक्तमुक्तावली योऽन्यायं कदापि कर्तुं नार्हति, सदाचारनिरतः, पुत्रार्थं पितेव, सदैव सर्वतो राज्यलक्ष्मीं वर्धयेत, प्रजाश्च पालयेदीदृग्गुणविशिष्ट एव प्रधानतामर्हति यथाऽभयकुमारादिरभूत् ।
१८ - अथ प्रधानपदे धीमतोऽभयकुमारमन्त्रिणः कथा - यथा - राजगृहनगरे राजा प्रसेनजितो वर्तते । स एकदा शतपुत्राणां मध्ये परीक्षया श्रेणिकं राज्यार्हं मत्वाऽस्य कोऽप्यनिष्टं मा कार्षीदिति धिया स्वदेशं त्यक्त्वा देशान्तरे यत्र कुत्रापि स्थातुं तमादिदेश । सोऽपि सहर्षं पितुरादेशं शिरसाऽवधार्य तदैव ततो I निर्गत्य कियता दिनेन सोईनगरमाययौ ।
तत्र च धनावहश्रेष्ठिनो हट्टाग्रे समुपाविशत्तदा स आपणभवनं संमार्ण्य तद्रजांसि बहिर्निक्षेप्तुं लग्नः । तदालोक्य तत्रोपविष्टः श्रेणिको व्यमृशत्-अहो ! किमसौ मतिक्षिप्तो यदेतदतिमहार्घाः पीतमृत्तिकाः कनकाभाः (तेजमतुरीः) प्रक्षिपति । अतस्तमवदत् - भोः श्रेष्ठिन् ! एतानि रजांसि गृहान्तः स्थापय । सत्यवसरे समुपयोक्ष्यन्ते, तद्योग्यवचनेन तं योग्यं मत्वा निजालयमनयत् । श्रेणिकस्तद्गृहे गोपालकनाम्ना प्रसिद्धो भवन्नतिष्ठत् । कियत्समयानन्तरं स श्रेष्ठी I तस्मै निजपुत्रीं सुनन्दां सुविवाहविधिना ददौ । तया सह भोगं भुञ्जानो गोपालकः श्रेष्ठिन आपणीयक्रयविक्रयाद्यायव्ययौ लिखन् सुखेन दिनानि गमयन्नासीत् ।
अथैकदा तत्र नगरे कश्चन वणझारः सोपस्कराणां भारवाहिकवृषभानां सपादलक्षं लात्वा तत्रागात् । स प्रतिहट्टं तेजमतुरीति
274