________________
सूक्तमुक्तावली शुभाशिष वदंस्तदङ्गणे समेत्य तस्थौ । तद्भार्यया दापितासने स उपाविशत् । या तद्घोटकी तस्या अप्यन्नतृणादिकमदापयत् ।
अथ सादरेणं तं चारणं मिष्टान्नं सम्भोज्य तत्पत्नी तमेवं । जगाद- सम्प्रति श्रेष्ठी गृहे नास्ति, यदागमिष्यति तदा त्वां सत्करिष्यति । तावदहं ते पर्णवीटिकां वितरामि तां सहर्षेण गृहाण, चारणोऽवददेवमस्तु। अथ सा सुरत्नजटितंबहुमूल्यं कर्णाभरणं पर्णवीटिकायां निधाय तस्मै ददौ । स तां लात्वा तस्यै चाशिषं ददानः प्रतस्थे । बहिरागतः स वीटिकां गुर्वी ज्ञात्वा समुघाटितवान्। तत्र प्रोज्ज्वलद्रत्नं महाहं निरीक्ष्य पुनस्तस्या अन्तिकमाजगाम तदैवमभाषत"जे पण सुवन्नह रयण की चुन्नह, माहिं मेल्यो फोफलवन्नह । अवर राय जो मांगू सोल्लह, तोहि न पहुंचे भीमतंबोल्लह" ॥१॥
इति गाथां पठित्वा तदैव स प्रतिज्ञामकरोत्-यदद्यप्रभृति भीमोशाहश्रेष्ठिनं विना कमप्यन्यं न याचिष्ये, इत्थं तत्कीर्तिः सर्वासु दिक्षु प्रससार । एवं स्वकीर्तिपताकाप्रसारणेच्छावद्भिः सज्जनैरन्यैरपि तथाचरणीयं यथा तस्येव सुकीर्तिः सर्वत्र लोके प्रथेत ।
अथ १९-मन्त्रि-विषयेसकल व्यसन वारे स्वामि सूं भक्ति धारे, स्वपरहित वधारे राजना काज सारे । अनय नय विचारे क्षुद्रता दूर वारे, निज सुत जिम थारे राज्य-लक्ष्मी यधारे
॥३२॥ कीदृशेन प्रधानेन भाव्यमित्युपदिशति-सन्त्यक्तसप्तव्यसनकः, स्वस्वामिभक्तः, स्वस्य परेषाञ्च हितचिन्तको, राज्यकार्यकरणे दक्षिणः,
-273