SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली आखेटकव्यसनाद्रामो निजप्रियया स्त्रिया वियुक्तोऽभूत् (जैनेतरमतानुसारेण) ५, वेश्यागमनव्यसनाद्रङ्कीभूय कृतपुण्याभिधः श्रेष्ठी महादुःखी बभूव ६, परस्त्रीलाम्पट्यव्यसनाद्रावणश्चतुर्थनरकवासी जज्ञे ७, अत एतानि सप्तव्यसनानि दूरतः परिहर्तव्यानि श्रेयोऽर्थिभिः सकलैर्भव्यजनैरपि ||३०|| अथ १८ - कीर्ति - विषये, मालिनी - छन्दसि - दिशि दिशि पसरन्ती चन्द्रमा ज्योति जैसी, श्रवण सुनत लागे जाणे मीठी सुधा सी । निशिदिन जन गाये राम राजिंद जेवी, इणि कलि बहु पुण्ये पामिये कीर्ति एवी ॥३१॥ इह संसारे चन्द्रकलेव समुज्ज्वला, सकलाशाप्रसृता रामचन्द्रस्येव दिवानिशं लोकैर्गीयमाना सुकीर्तिः पुण्यवतामेव समुद्रवति । ईदृशीं सुकीर्तिं भीमोशाहमहेभ्यस्तत्पत्नी च जनयामास । ॐ १७ - अथ सुकीर्तिविषये भीमोशाहस्य कथानकम् यथा कश्चिद्भीमोशाहनामा वणिक्कुबेर इव समृद्धिमान् सदैव दानधर्मं वितनुते । भट्टभोजकाद्यर्थिभ्यो यथेच्छं द्रव्यादिकं ददाति । इत्थं सर्वत्र प्रसृतां तत्कीर्तिमाकर्ण्य कश्चिदेकश्चारणस्तत्रागात्तमागतं वीक्ष्य तत्सेवकोऽवदत्- भोश्चारण ! श्रेष्ठी ग्रामान्तरे तिष्ठति । तद्वचसाऽन्तर्विदूयमानः स दध्यौ - श्रेष्ठी यदि न मिलितस्तर्हि तत्पत्नीमेव मिलेयम् । सा कीदृशी वर्तते तदपि ज्ञास्यामि, इति विमृश्य श्रेष्ठिने 272
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy