________________
सूक्तमुक्तावली मोक्षश्रियं लभन्ताम् ।
अथ १७-परस्त्रीगमन-विषयेचोपाईस्वर्गसौख्य भणि जो मन आशा, छांडे तो परनारि विलासा । जेण एण निज जन्म दुःख ए, सर्वथा न परलोक सुक्ख ए
॥२९॥ भो लोका ! यदि यूयं स्वर्गीयसुखसन्ततिमभिलषथ तर्हि परदारागमनं स्वप्रेऽपि नो चिन्तयत । यो हि परदारान् वाञ्छति स पापीयानस्मिन्नेव लोके यावज्जीवं दुःखं भुङ्क्ते परत्र च दुर्गतिमुपैति । तथाहि-त्रिभुवनविजेतापि दशाननः परदारारिरंसार्थी भूत्वा सीतामपहृत्य लङ्कामनैषीत् । तदनु तेन पापेन तस्य दशाननानि रणाङ्गणे रामेण छिन्नानि । मृतः संश्चतुर्थं नरकं ययौ ||२६|| अथैकेन श्लोकेनैतत्सप्तव्यसनवतां यज्जातं
तदाह-शार्दूलविक्रीडित-छन्दसिजूआ खेलण पाण्डया वन भने मधे बली द्वारिका, मांसे श्रेणिक नारकी दुख लहे बांध्या नर के चौरिका ?] आखेटे दशरथ पुत्र विरही केयन्न वेश्या घरे, लंका स्वामि परत्रिया रसरमे जे ए तजे ते तरे ॥३०॥
द्यूतव्यसनात्पञ्चापि पाण्डवा द्वादशवर्षाणि वने न्यवात्सुः १, मद्यपानव्यसनतो द्वारिकापुरी सलोका सपरिच्छदा सन्दग्धा २, (सम्यक्त्वप्राप्ति पूर्व) मांसाशनव्यसनाच्छ्रेणिको नृपो नरकम्प्राप ३, चौर्यव्यसनतो रोहिणीनामा प्रसिद्धो महाचौरो निगृहीतः ४,
271