________________
सूक्तमुक्तावली
१६ - अथाऽऽ खेटव्यसनत्यागे लब्धमुक्तेः संयतिनृपस्य कथा
यथा-संयतिनामा कश्चिद्राजा मृगयाव्यसनी बभूव । स चैकदा मृगयायै वनमगात्तत्र मृगं विलोक्य यावद्वाणं मोक्तुमैच्छत्तावत्स लक्ष्यो नष्ट्वा कायोत्सर्गध्याने स्थितस्य गर्दभमुनेश्चरणोपान्तेऽतिष्ठत्तावदेव तन्मुक्तोऽपि शरस्तस्याग्रेऽपतत् ।
तदनु द्रुतं तत्रागतो राजा मुनिमालोक्य शप्स्यतीति भीत्या तं ननाम जगाद च महात्मन् ! ममाऽभयं देहि | अहमन्यो न किन्त्वेतन्नगरीनृपः संयतिनामाऽस्मि, ममाऽऽश्रयेण बहवो लोका जीवन्ति । अतो मयि प्रसीद अपराधश्च क्षम्यताम् । साधुरगदत्T राजन् ! यथा निजप्राणानवसि तथान्यानपि जीवानव । यथा त्वं जिजीविषसि तथैवाऽन्ये जीवा अपि जीवितुमिच्छन्ति मर्तुङ्केऽपि न चेष्टन्ते । अतस्त्वयापि दीनेभ्यो जीवेभ्योऽभयं प्रदेयम् । तवाऽभयमित्थमेव स्यादिति साधुभाषणमाकर्ण्य प्रबुद्धो राजा षट्कायजीवजातेभ्योऽभयं प्रदाय तत्पार्श्वे चारित्रं गृहीत्वा ततो विजÇ ।
मार्गे कश्चिदेकः क्षत्रियः साधुरमिलत्तमपृच्छत्संयतिराजर्षिः भोः ! त्वङ्कोऽसि ? तेनोक्तम्- किं त्वमेवात्र शासने साधुरभूरन्यो नास्ति ? एवं माऽमंस्थाः । इह शासने भरतचक्रवर्तिसनत्कुमारशान्तिनाथप्रमुखा अनेके महापुरुषा अभूवन् । तान् किन्न जानासि ? तद्वाक्यश्रवणेन प्रतिबुद्धः स चारित्रेऽतिदाढ्यं नयमानो धर्ममाराधयन् देहं त्यक्त्वा मुक्तिमियाय । हे प्राणिनः ! पश्यत, संयतिनामाऽसौ नरपतिराखेटकत्यागेन मोक्षमाप्तवान् । असाविव मृगयां विहायाऽन्येऽपि
270