________________
सूक्तमुक्तावली
भो भो ! लोकाः ! पश्यत, विदाङ्कुरुत, यद्वेश्यासंगमात्कियती हानिर्भवतीति सिंहगुहावासी संयतोऽपि सञ्जाततत्संगमेच्छुश्चिन्तामणिमिव पञ्चमहाव्रतमत्यजत् । चतुर्मास्यामतिदूरं नेपालमगमत्षट्कायिकजीवजातमहन्, सचित्तं वारि तत्कर्दमादिकं स्पृष्टवान् । लुण्टाकेन विलुण्टितः पुनस्तत्र गत्वा नृपं याचित्वा प्राप्तं रत्नकम्बलं वेश्यायै ददौ । तथापि तयावज्ञातो निर्भत्सितः स मुनिरपि । अतो वेश्यासङ्गमेच्छापि कदापि न कर्त्तव्या सद्भिस्तर्हि गमनन्तु सुतरां महानिष्टत्वान्निषिद्धमेव ।
T
अथ १६ - आखेटकव्यसन-विषये
मृगयाने तज जीव घात जे,
सघले जीव दया सदा भजे ।
मृगयाथी दुःख जे लह्यां नवा, हरि रामादि नरेन्द्र जेहवा
॥२७॥
भो लोकाः ! प्राणिप्राणविघातकरीमृगया भ्रमादपि न कर्त्तव्या किन्तु जीवरक्षार्थं सदैव यतितव्यम् । मृगयाव्यसनतः पुरा रामकृष्णादयो महान्तोऽपि बहूनि दुःखानि प्रपेदिरे । तत्त्यागतः संयतिराजवत्कियन्तः सन्तः सुखमापुः । एतत्कथोत्तराध्ययनसूत्रीयाष्टादशाध्याये विस्तीर्णा विद्यतेऽत्र तु संक्षिप्तैव प्रसङ्गान्निगद्यते ||२८||
I
1. महाभारत, वाल्मिकीरामायण के अनुसार ।
269