________________
सूक्तमुक्तावली तयोक्तम्- भो ! आनीतं, तदा मुनिराख्यदानीतं, तयोक्तम्- तर्हि दीयताम् । अथ स गणिकायै तदार्पयत्साऽपि तल्लात्वा तदैव स्नात्वा तेनाऽशेषाङ्गं प्रोञ्छिय पश्यति मुनौ तदशुचिस्थाने प्रक्षिप्तवती । तदसमञ्जसं मत्वा तां निजदारामिव कुपितो जगाद-अरे प्रचण्डे रण्डे ! गतभाग्ये ! त्वयेदं किमकारि ? यदमूल्यं दुष्प्राप्यमेतदशुचिस्थानके तुच्छमिव क्षिप्तम् । मया तु महता कष्टेन चातुर्मासेऽपि वारद्वयं तत्र गत्वा तदानीतम् । नूनमेतत्कर्मणा महामूर्खाणां मूर्धन्या नष्टभाग्या च लक्ष्यसे ।
तदा सा तमेवमवादीत्- भो मुने ! नाऽहं मूर्खाऽस्मि किन्तु महाविज्ञा महाभाग्यवती चास्मि । परं त्वमेव सकलमहामूढनरनायकः प्रतीतो भवसि, त्वत्तोऽधिकं भाग्यहीनमन्यं कमपि नैव वेद्मि, यतः स्थूलिभद्रप्रतिष्ठामसहमानः स इव त्वमत्रागाः । स मासचतुष्टयं मयाभ्यर्थितोऽपि किञ्चिदपि विकारं न प्रापत् । त्वन्तु तत्कालमेव मदास्यदर्शनमात्रेणैव विषयभोगाभिलाषी श्ववदभूः । किञ्च लक्षमूल्यकैतद्रत्नकम्बलावज्ञया मामेवमुपालभसे | परं स्वयं पञ्चमहाव्रतात्मकचिन्तामणिरत्नं गमयन् किन्न लज्जसे ? धिक्त्वां यत्संयमीभूय चातुर्मासमध्ये संमूर्च्यजीवान् विराधयन्, विषयरिरंसामधिश्रयन नेपालं वारद्वयं गत्वा, तल्लात्वाऽत्रागतोऽसि, पुनरीदृशस्त्वं मदनमातङ्गकुम्भमेदनक्षमस्य केसरिणः स्थूलिभद्रस्योपरि द्वेषं वहन्नूनं शृगालायसे ।
अथोपकोशावेश्याया ईदृशैराक्षेपवाक्यैः प्रतिबुद्धः स तदैव स्थूलिभद्रपार्थमागत्य स्वापराधं क्षामितवान् । गुरुपाद्ये जातमतिचारं समालोच्य पुनः संयमाराधने तत्परोऽभवत् ।
268