________________
सूक्तमुक्तावली चेत्तत्र याहि, रत्नकम्बलमानीय मे देहि ।
अथैतदाकर्ण्य सिंहगुहावासी साधुश्चातुर्मास्येऽपि महता कष्टेन नेपालराजपार्थमगात् । तं धर्मलाभाशिषाऽवर्धयत्, राजापि तस्मै सपादलक्षस्य रत्नकम्बलमदात् । तल्लात्वा परावर्तमानः स पथक्रमेण चौरपल्लीमागतः । तत्र चौरा यत्र तत्र तिष्ठन्ति परं पिअरस्थ एकः शुकः शाखाश्रितोऽस्ति । धनमादाय यदा तत्र कोऽप्यागच्छति तदा स कीरस्तान् सूचयति । तदा ते समेत्य तं पान्थं विलुण्टयन्ति । सोऽपि तत्र यदाऽऽयात्तदा स कीरोऽवक्- भो भोश्चौरा ! धावत धावत कश्चन सपादलक्षीयरत्नकम्बलमादाय गच्छति । तन्निशम्य तत्र समेतास्ते तस्य तल्लुण्टन्ति स्म ।
___ ततः स विलक्षवदनीभवन पुनस्तत्रागत्य राज्ञे शुभाशिषं ददौ । राज्ञोपलक्षितः पुनरागमनकारणञ्च पृष्टः, सोऽवक्-पुरा दत्तं तत्मार्गेऽपाहरन् । तदनु भूभुजा पुनरपि लक्षमूल्यकं रत्नकम्बलं वंशदण्डान्तर्निक्षिप्य दत्तम्।
तल्लात्वा तत्रागते तस्मिन् कीरः पूर्ववन्न्यगदत्- भो भोः ! धावत धावत शीघ्रमत्रागच्छत, लक्षधनी कोऽपि समेतोऽस्ति। तन्निशम्य तत्क्षणं समेत्य चौरास्तत्पार्थे धनं विलोकितवन्तो यदा नैव लब्धं तदा ते तमेवमूचुः- भो ! एतत्कीरवचः कदापि मिथ्या नाभूदद्यैव वितथं भवति । अतस्त्वं सत्यं वद, तत्ते वयं नाऽपहरिष्याम इति श्रुत्वा तेन मुनिना वंशान्तः क्षिप्तं तद्दर्शितम् । तदालोक्य कीरवचसि प्रामाण्यं दधतस्ते लुण्टाकाः पुरादत्तवचनतया नाऽपाहरन् ।
अथ स ततो निर्गच्छंश्चतुर्मासान्ते तद्गणिकालयमागात् ।
267