________________
सूक्तमुक्तावली भो महानुभाव ! त्वं कथं खिद्यसे? मया यदुक्तं तत्सम्यगेव । यद्भवन्तत्रयोऽपि यदुष्करञ्चक्रुः, तदेकेनैव तेन चक्रे | तथाहि____ या तत्र चित्रशाला तां कूपभारवटं जानीहि, कुत एतत्यस्यां परितश्चतुरशीतिसंभोगासनचित्राणि पश्यन्नप्यसौ किञ्चिदपि मनोविकृतिं नाप | पुनर्या गणिका सा विषमा भुजङ्गी तत्सान्निध्येऽपि कदापि तयाऽसौ न दष्ट: । यश्चाऽसौ द्विसन्ध्यमतिसरसं षड्रसमाहारमकृत तमेव सिंहमवेहि । इत्थं गुरुणा तत्कारणे निगदितेऽपि सिंहगुहावासी तस्मिन् मत्सरतां न जहौ । यदनेन किं दुष्करं चक्रे ? मयापि तल्लघुभगिन्या उपकोशावेश्याया गृहे चतुर्मासी करिष्यते ।
अथाषाढचतुर्मास्यामागतायां सिंहगुहावासी गुरुम्प्रत्यवदत्भो गुरो ! अहमपि वेश्यागृहे चातुर्मासिकी स्थितिञ्चिकीर्षामि, अनुज्ञां ददस्व, तच्छृण्वन्नपि गुरुमौनमाश्रयत् । तदनु गुर्वाज्ञां विनैव स मुनिरुपकोशावेश्यालयं प्रत्यचलत् ।
तत्रावसरेऽट्टालिकायां स्थिता सा वेश्या तमायान्तं विलोक्य तदाकृत्या विदाञ्चक्रे, यदसौ स्थूलिभद्रस्पर्धयाऽत्रागच्छति, परमस्य पूर्व परीक्षा क्रियेत चेद्वरमिति यावद्विमृशति, तावद् द्वारि समागतः स उच्चैर्धर्मलाभमवदत् । तच्छ्रत्वा तयोक्तम्- भो मुने ! अत्र धर्मलाभो नाऽपेक्ष्यते किन्त्वर्थलाभ एवेत्याकर्ण्य स तन्मुखचन्द्रं वीक्ष्य मनसि विकृतिमुद्भावयन्नवोचत-अयि लावण्यवारिधे ! त्वं कीदृशमर्थमीहसे ? तं प्रकाशं वद, तयोक्तम्- रत्नकम्बलं वाञ्छामि । मुनिनोक्तम्तत्कुत्र लभ्यते ? तयोक्तम्- तदत्र न मिलति । नेपालदेशे भवादृशे मुनये राजा सपादलक्षमूल्यं तद्वितरति । तवापि मया सह रिरंसा
.
'
266