________________
सूक्तमुक्तावली यदिच्छसि तत्कुरु त्वमिति निगद्य पुष्करपलाशवन्निर्लिप्तः स तद्गृहे चतुर्मासं तस्थिवान् ।
___ अथ सा वेश्या प्रतिसन्ध्यं नवं नवं महापुष्टिकरं मदनोद्दीप्तिकरमाहारं भोजयन्ती नानाविधहावभावं वितन्वती कटाक्षयन्ती तन्मनश्चालनपरासीत्, परं मनागपि तन्मनश्वाञ्चल्यं न प्राप । मेरुमिव निश्चलं तं वीक्ष्य सा चकिता जाता जगाद च-अहो! सैवेयं चित्रशाला तान्येव चित्रितानि चतुरशीतिसम्भोगाऽऽसनानि । स एवाऽसौ यः पुरा वारितोऽपिक्षणं मांन त्यक्तुमिच्छतिस्म। सम्प्रति मयैवमर्थितोऽपि मदनतरुं संयमकुठारेण समूलमुच्छिद्य मेरोरप्यधिकं मनःस्थैर्य प्रकटयते । अथ चमत्कृता सा कोशा वेश्या तदुपदेशतः शुद्धा श्राविका जाता द्वादशव्रतान्याददे ।
अथ चतुर्मासानन्तरं तस्या आज्ञया स्थूलिभद्रमुनिर्गुर्वन्तिकमाजगाम | गुरुस्तमायान्तं विलोक्य तदभिमुखमेत्य वारत्रयं दुष्करकारमदात् । तदनु द्वितीयः सिंहगह्वरवासी चातुर्मासोपवासी शिष्य आगात् । तस्मै सकृदुष्करवादं दत्त्वा सुखशातमपृच्छत् । तथा कूपोपरि तिष्ठन् कृतचतुर्मासोपवासस्तृतीय आगतस्तमप्येकवारं . दुष्करकारदानेन सच्चक्रे | एवं सर्पबिलोपरि चतुर्मासी स्थित्वा समागतञ्चतुर्थशिष्यमप्येकवारं दुष्कर इत्युच्चार्य भावितवान् । ... अथ मिथो मिलितेषु चतुर्षु स्थूलिभद्रस्पर्धालुः सिंहगुहावासी मुनिर्मनसि खेदमकरोत् यद्गुरुस्त्रीनस्मानेकदैव दुष्करदानेन बभाषे । यः पुनरद्यापि निजस्वभावं नाऽत्यजत्तस्य महाकायस्य शकडालमन्त्रिपुत्रस्य दुष्करकारं त्रिवारं ददौ । अर्थतज्ज्ञात्वा गुरुस्तमाचख्यौ
265