________________
सूक्तमुक्तावली अथ राजान्तिकमागत्य तं नमस्कृत्य कृताञ्जलि~जिज्ञपत्स्वामिन् ! किमर्थं मामद्य समाकारितवानसि ? तेनोक्तम्- त्वं पितुः स्थाने स्थाप्यसे । तेनोक्तम्- हे महाराज ! श्रीमतामादेशः शिरसा धार्यते परमत्र विषये किमप्यालोचनीयमस्ति, तदालोच्य निश्चयं वदिष्यामि ।
ततो नृपादेशतः सोऽशोकवनमागत्य निजहस्तेन केशानवलुच्य रत्नकम्बलस्य रजोहरणं विधाय राजसभामागत्य तारस्वरेण कल्पतरुरिव 'धर्मलाभ' इत्युच्चचार | ततः संभूतिविजयाचार्यपाः दीक्षा ललौ।
अथ वर्षौ गुरवश्चतुःशिष्येषु स्थूलिभद्रमेवमादिशन्-त्वं तत्रैव वेश्यालये चतुरो मासान् स्थित्वा संयमाराधनं कुरुष्व । एकं शिष्यं वने सिंहगह्वरद्वारे तिष्ठन्नुपवसंश्चतुर्मासं विधेहीत्यादिदिशुः । कूपमारवटे (कूपोपरि दत्तकाष्ठे) स्थित्वा चतुर्मासं कुर्विति तृतीयशिष्यमादिष्टवन्तः । सर्पबिलसमीपे चतुर्मासं तिष्ठेति चतुर्थमाज्ञप्तवन्तः । अथ गुर्वाज्ञया ते चत्वारस्तत्र तत्र ययुः ।
___ राजानं मिलित्वा समेष्यामीति पुरा स तां वेश्यामुक्तवान् । अद्यापि प्रतीक्षितवती । साम्प्रतं गुरुनियोगतः स्थूलिभद्रमुनिर्वेश्यागारमाययौ। तमागतं वीक्ष्य चिरादुत्कण्ठिता सा गणिका घनागममवाप्य मयूरीव नितरां मुमुदे | सादरं चित्रशालायां न्यवासयत् ।
अथ सा मुनिवेषं त्यक्तुं तमधिकं प्रार्थितवती, परं दृढात्मा स नैवाऽमुञ्चत् । विषयभोगाय बहुधाऽयतत, हावभावादिना तमलोभयत, परं वशीकृतेन्द्रियवर्गः स तामूचे सार्द्धत्रयोदशहस्तदूरे तिष्ठन्ती 264