________________
सूक्तमुक्तावली
अथ १५-वेश्याव्यसन-विषयेकहो केन वेश्या तणो अंग सेवे, जिणे अर्थनी लाजनी हानि होये । जिणे कोश सिंही गुफाये नियासी, छल्यो साधु नेपाल गयो कंबलासी
हे भ्रातः ! त्वमेव कथय यां निषेवमाणो नरो धनं विनाशयति । लोके च निन्दामाप्नोति कुलमुज्ज्वलं मलिनीकरोति । ईदृशीं सकलदोषधरां गणिकां को मतिमान् सेवेत ? या हि महामूर्खः स एव तामिच्छति । पश्य पश्य यदसौ स्थूलिभद्रसाम्यलिप्सुः सिंहगुहावासी गुरुभ्रातोपकोशावेश्यानिदेशतश्चतुर्मास्यामपि रत्न-कम्बल-मानिनीपुर्नेपाल-देशमतिदूरमगच्छत् ||२७|| १५-अथ सिंहगुहावासिसाधूपकोशावेश्ययोः
__कथानकम्यथा पाटलिपुरनगरे नन्दनामा राजा वर्तते । तन्मन्त्री शकडालाख्यो विद्यते। तावकः स्थूलिभद्रनामा पुत्रः कोशानामवेश्यारागी भूत्वा तदालये द्वादशवर्षाणि तस्थिवान् सार्धद्वादशकोटिधनमदाच्च तस्यै । अत्रान्तरे केनापि हेतुना वररुचिब्राह्मणकूटप्रपञ्चयोगात् शकडालमन्त्री मृत्युमध्यगच्छत् । तत्रावसरे नन्दराजो मन्त्रिपदप्रदानाय स्वपुरुषेण तं स्थूलिभद्रं वेश्यालयतः समाह्वाययत् । नृपाहूतः स तदैव प्रतस्थे, तदा वेश्या तमधिकं निरुरोध, परं चतुरः स समुचितैमिष्टवाक्यैस्तामनुनीय दूतेन सह राजान्तिकमाययौ मार्गे च पितुर्मरणमाकल्य्य तन्मनो नितरामसारसंसारतो विरक्तमभूत् ।
-263