________________
सूक्तमुक्तावली सजनादिकामिमां नगरी भस्मसात्करिष्यति ।
इति भगवन्मुखान्मद्यपानेन विघ्रं संभाव्य पुत्रादिसकलजनान् मद्यपानतो न्यवर्तयत श्रीवासुदेवः । तद्वचसा सर्वे तदत्यजन् परं भवितव्यप्राबल्यादेकदा शाम्बप्रद्युम्नादयः काननक्रीडां विधातुमगुस्तत्र मद्यगन्धमासाद्य तत्र गत्वा ते सर्वे यथेच्छंमदिरामपिबन् । तदाऽचिरादेव मद्योष्मणा सदसद्विवेकशून्याः प्रमत्तास्ते सर्वे यत्र कुत्र भ्राम्यन्तः समीपे तपस्यन्तं द्वैपायनमृषिमद्राक्षुः । तदा ते सर्वे द्वारिकाविनाशकोऽयमिति मत्वा तदन्तिकमागत्य बहुधा तमुपद्रोतुं लग्नाः । केचन मुष्टिना कियन्तो लोष्ठादिभिरताडयन् । ततस्ते लोकैर्निवारिता ऋषि मुमुचुस्तदनु प्रकोपितः स निदानं कृत्वा मृत्वाऽग्निकुमारोऽभवत् ।
ततस्तद्वैरं स्मरन् सलोकां द्वारिकां दग्धुं प्रावर्तत । परं ततो भीताः सर्वे लोका अखिलेऽपि पुरे प्रतिगृहमाचाम्लमारेभिरे | तदाम्बिलतपः-प्रभावतो द्वादशवर्षाणि यावत्तां दग्धुं नाऽशक्नोत, ततोऽवश्यं भाव्यत्वात्सर्वे तत्तपस्तत्यजुः । यथा सुभूमचक्रवर्तिनश्चर्मरत्नमेकदैव तदीयदुर्दिष्टोदयात्सकला देवा अत्यजंस्तथा, तदैवाऽवसरमासाद्य सोऽग्रिकुमारस्तां पुरीं कृष्णबलभद्रौ विना सकलचराचरप्राणिसहितामदहत्तत्राऽवसरे ये दीक्षाभिलाषिणस्तानप्यमुञ्चत् । सर्वाणि भवनानि सर्वाः सम्पदः सोऽग्निरूपेण भस्मसाच्चक्रे ।
सर्वमेतत्सुरापानव्यसनादजायत । मद्यपास्तत्कालमेव तत्पारवश्यङ्गता विवेकविकला अपेयं पिबन्ति, अवाच्यं निगदन्ति, अकार्यमाचरन्ति, किंबहुना तत्पानेन महान्तोऽपि नराअधमा भवन्ति। अतो मद्यमपेयमेव सदा सर्वेषामिति सर्वे विदाकुर्वन्तु ।
262