________________
सूक्तमुक्तावली जले पातयामास । पुनस्तत्रावसरे राज्ञा निजसेवकं सम्प्रेष्य सा समाकारिता । तदानीं मनसि जहर्षाऽचिन्तयच्च सा यदद्य गीतमाकर्ण्य माञ्च विलोक्य राजा प्रसन्नो भूत्वा यथेष्टं दास्यति । अथ तावुभौ नृपसदसि समेतौ गातुं लगश्च पगुस्तद्गीतमाकर्ण्य नृपोऽवदत्वने रुधिरमापीतं, भक्षितं मांसमूरुजम् । भागीरथ्यां पतिः क्षिप्तः, साधु साधु पतिव्रते ! ।
॥॥ अथ नृपोदितममुंश्लोकं निशम्य सा तत्कालं विच्छायवदनाऽभवत् । तदनु स राजा तावुभौ स्वराज्यान्निष्कासितवान् । स्त्रियं दुःशीलामालोक्य समुत्पन्नवैराग्यः स पुण्याढ्यो नरपतिश्चारित्रमादाय स्वात्मश्रेयो विदधत्सुखी बभूव ।
भो लोकाः ! पश्यत यदसौ जितशत्रुनरपतिरपि यावद व्यसन्यासीत्तावद्दुःखमेवाऽन्वभूत्त्यक्ते च तत्र व्यसने राज्यसुखमाप | ततो मोक्षार्थीभूय संसारमसारममुमत्यजत् । अतो यूयं भ्रमादपि मद्यव्यसनवन्तः कदापि नो भवत ।
१४-तथा मद्यव्यसनादेव द्वारिकापुरी कृष्णसुरक्षितापि भस्मसादभूतस्यः कथानकम्
अथैकदा श्रीकृष्णो नेमिनाथदेशनान्ते तं भगवन्तमपृच्छत्-हे भगवन्! ममैतद्द्वारिकापुर्या अवसान कदोदेष्यति ? भगवानाह-हे कृष्ण ! एतदवसानं तदोदेष्यति यदा तव पुत्रौ शाम्बप्रद्युम्नौ सुरां निपीय वनस्थं द्वैपायनमुनिमनेकोपसर्ग विधाय हनिष्यतः । ताभ्यां निहतः स कृतनिदानो मरिष्यति तदनु स एवाग्रिकुमाररूपेण सकलां
261