________________
सूक्तमुक्तावली निष्पत्स्यते ? तेनोक्तम्-प्रिये ! अहं गातुं जानामि, परमहं चरणाभ्यां विहीनोऽस्मि, कुत्राप्येकपदमपि गन्तुं न शक्नोमि । तयोक्तम्-नाथ ! अहं त्वां निजस्कन्धे धृत्वा सर्वत्र पर्यटिष्यामि ।
तथा निश्चित्य सा पगुं निजस्कन्धे संस्थाप्य भिक्षायै नगरमागता | पङ्गुश्च मधुरस्वरेण सकलजनश्रोत्रसुखं गायति, तदीयमधुरगीतेन वशीकृतो जनवर्गस्तं परिवृत्य तस्थौ। तदा कियन्तो लोकाः सुकुमालिकायाः सौन्दर्यातिशयेन मुमुहुः । कियन्तो लोकाः पङ्गोमनोहरगानेन मोहमीयुः । कियन्त एवं जजल्पुः-अहो! पङ्गोरीदृशी सुन्दरी स्त्री न युज्यते । इत्थं यथारुचि वदन्तो लोका यद्ददति तेन तौ भोजनादिकं कुर्वाते ।
इत्थमेव प्रत्यहं सा भिक्षते । एवं कियन्ति दिनानि तत्र नगरे मिक्षित्वा ग्रामान्तरे मिक्षितुमलगत्तत्र महारूपवतीस्त्रीस्कन्धे स्थित्वा मधुरं गायन्तं पङ्गुमालोक्य सर्वे द्रष्टारः "पांगलो गाय, आंधलो दले ने कूतरुं खाय" इति जनश्रुतिस्मृत्या सहाश्चर्य मनसि मन्यमानास्तं द्रष्टुमेकत्र मिमिलुस्तेषु कियन्तस्तां स्त्रियं तुष्टुवुः ।
यथा नूनमियं स्त्रीमतल्लिका यदमुं भर्तारं स्कन्धे निधाय सर्वत्र पर्यटति । सर्वत्र पतिव्रतानाम्ना सा प्रख्यातिमलब्ध । अनुक्रमेण पर्यटन्ती सा पुण्याढ्यराजस्य नगरं समाससाद, तत्रापि तस्याः प्रतिष्ठां सर्वे जगुः । कथाप्रसङ्गात्कियन्तो राजानं जजल्पुः- हे महाराज ? साम्प्रतमत्र नगरे काचिदेका महारूपवती पतिव्रता स्त्री पगुभर्तारं निजस्कन्धे धृतवती भिक्षते । पद्यश्च मनोहरं प्रशस्यं गायतीति श्रुत्वा नृपो मनसि शशङ्के नूनं सैव दुष्टा भविष्यति ! या मां
260