________________
सूक्तमुक्तावली
नृपं गङ्गाद्द्रदेऽम्भसि न्यपातयत्परं दैवयोगात्स तीर्त्वा जीवन्नुपरि
समायातः ।
तत्रैव चाऽपुत्रस्य नृपस्य मृत्यौ प्रधानादिलोकैः कृतं पञ्चदिव्यं प्रावर्तत । वादित्रादिमहोत्सवेन पृष्ठानुगतसकलपौरजनः स करीन्द्रो ग्रामाद् बहिरागच्छंस्तत्रागत्य जितशत्रुनृपं कलशवारिणा स्नपयाचक्रे । वाजिना हेषितं छत्रं तदुपरि तस्थौ चामरे च तमुभयतो वीजयाञ्चक्राते । तदनु स गजेन्द्रः शुण्डादण्डेन तं पृष्ठमारोपयत । इत्थं महता महेन पुरमानीय नृपासने तमुपावेशयत्पुण्याढ्यनाम्ना स तत्र पप्रथे । तदनु न्यायतः प्रजाः पालयन् सुखमनुभवन्नास्ते ।
I
I
इतश्च सा सुकुमालिका राज्ञी नृपं ह्रदे निपात्य गृहमागता लोकानवदत्-न जाने मम स्वामी कुत्र गतस्तत्र महोत्सवे गङ्गातीरे मां मुक्त्वा । किमपि कौतुकं द्रष्टुं क्वापि गतः, स इदानीमपि नायातो, मया तत्र सर्वत्र विलोकितः परं न मिलितः । तेन मे महती चिन्ता भवति किङ्करोमि ? अहमेकाकिनी क्व व्रजामि ? हा दैव ! किं कृतम् ! तद्वियोगान्मे हृदयं शतधा विदीर्यते । यदि कोऽपि तच्छुद्धिमानयिष्यति तस्मै पारितोषिकं दास्यामि तदुपकृता च भविष्यामि । इत्थं विलपन्ती निजौदास्यं प्रकटयन्ती गृहान्तः प्राविशत्तदा पङ्गुमवक्- हे नाथ ! क्षिप्तो गङ्गाप्रवाहे मया विघ्नोऽद्यप्रभृति निःशङ्को भव । यतस्ते भीतिरासीत्तमद्य जले न्यपातयम् ।
ततस्तेन पगुना दिवानिशं विषयसुखं कुर्वाणा सुखेन दिनानि व्यत्येतुं लग्ना । इत्थं तस्याः कियद्भिर्दिनैः पार्श्वस्थे धने व्ययिते द्वाभ्यां विचारितम्-धनन्तु व्ययितं किमपि नास्ति, भोजनादिकृत्यं कथं
259
,