Book Title: Sukta Muktavali
Author(s): Jayanandsuri and Others
Publisher: Ramchandra Prakashan Samiti

Previous | Next

Page 362
________________ सूक्तमुक्तावली मार्गयामासुः परं कुत्रापि तन्न लेभिरे | ततो राजा स्वयमेव मातुः पार्थमागत्य तदयाचत, परं माता जगाद- हे पुत्र ! तव पितैव मृतोऽस्ति, राज्ञापि तदुक्तं साधु मेने । पुनश्चक्रवर्ती सभामागत्य तदीयशोकापनोदाय द्विजमेवमुवाच- हे द्विज ! संसारचक्रे समागतो जीवः सर्वोऽपि म्रियत एव । यदेतज्जगदनित्यं गीयते, भावी केनाऽपि रोढुं न शक्यते, अतः शोकं त्यज, अस्य चोत्तरक्रियां विधेहि । तच्छ्रत्वा द्विजो जगाद-'परोपदेशे पाण्डित्यं, सर्वेषां सुकरं नृणाम्' इत्यस्योदाहरणं मा भूः यदुदीरितं तत्त्वयाऽपि परिपाल्यमेव । भवतामपि षष्टिसहस्रपुत्रा नागदेवेन भस्मसात्कृताः । अथैतद्वज्रपातोपमगिरमाकर्णयन्नेव नृपेन्द्रो मूर्छामापन्नो विचेतनो भूमौ पपात । तदनु कृतनानाविधशीतलोपचारेण लब्धचेतनो भृशंशोचन विलपंश्च चक्रवर्ती प्रकटितस्वरूपेणेन्द्रेण गतशोको विदधे | ततः स्वर्लोकमागात् । ततः सगरचक्रवर्ती निजपौत्राय भगीरथाय सेनाऽऽधिपत्यमदादिति पुत्रमोहाधिकारो दर्शितः । १२-अथ शय्यम्भवसरितत्पुत्रमनकयोः कथा___ यथेह पुरा श्रीवीरप्रभोः पट्टे श्रीसुधर्मस्वामी स्थापितस्तत्पट्टे श्रीजम्बूस्वामी, तत्पट्टालङ्कारी श्रीप्रभवस्वाम्यभूत् । स हि प्रान्ते निजपट्टालङ्कारियोग्यंकमपि यदा जिनशासने नाऽपश्यत्तदा लब्धिप्रयोगेण शय्यम्भवनामानं द्विजवरं यज्ञं विदधतं सूरियोग्यतमं मत्वा तत्प्रतिबोधाय द्वौ मुनी तत्पार्थे प्राहिणोत् । तौ तत्र गत्वा जगदतुः"अहो ! कष्टं महाकष्टं तत्त्वं न ज्ञायते त्वया" तयोरेतद्वचो निशम्य शय्यम्भवोऽपृच्छत्- भो मुनी ! युवाभ्यां किमुच्यते ? तावूचतुः 321

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434