________________
सूक्तमुक्तावली अथ द्वितीयोऽर्थवर्गः प्रारभ्यते |
अथार्थवर्गे हितचिन्तनं श्री,-मितम्पचार्थस्यमहीशसेवाः । खलादिमैत्रीव्यसनादि चैव,-मिहाऽवधार्याः कतिचित्प्रसङ्गाः॥१॥ ___तत्र स्वपरहितचिन्तनं १, सम्पद्-लक्ष्मीः २, कृपणता ३, अर्थी-याचना ४, अस्व-निर्धनता ५, राजसेवा ६, खलता-दुर्जनता ७, आदिशब्दादविवासः ८, मैत्री-मित्रता ६, सप्तकुव्यसनानि-द्यूतक्रीडनं १०, मांस-भक्षणं ११, चौर्यकरणं १२, मद्यपानं १३, वेश्याऽऽसक्तिः १४, आखेटकं १५, परस्त्रीप्रसङ्गश्च १६, पुनरादिशब्दात्-कीर्तिः १७, मन्त्री १८, कला १६, मूर्खता २०, लज्जा २१, चैवमर्थवर्गेऽस्मिन्नेकविंशतिविषयाः क्रमेण वर्ण्यन्ते ||१||
१-अथ स्वपरहितचिन्तन
विषये मालिनी-छन्दसिपरहित करया जे चित्त उच्छाह धारे, परकृत हित हीये जे न कांई विसारे । प्रतिहित पर थी ते जे न वांछे कदाई, पुरुष-रयण सोई वंदिये सो सदाई
॥१॥ ये हि सदैव परेषां हितं कर्तुमुत्साहं दधति वाञ्छन्ति च । ये च कदाचित्सकृदपि परकृतोपकारं न विस्मरन्ति । तथा परानुपकृत्य ततः प्रतिफले धनादिकं किमपि नेच्छन्ति ते रत्नसन्निभाः सत्पुरुषाः सदैव लोकमान्याः सन्तस्सर्वत्र जयन्ति ||१|| निज दुख न गणीने पारकुं दुःख वारे, तिहतणि बलिहारी जाइये कोडि पारे । 190