Book Title: Sramana 1999 10
Author(s): Shivprasad
Publisher: Parshvanath Vidhyashram Varanasi

View full book text
Previous | Next

Page 147
________________ १४० शास्त्रचिन्तनपरायणः, परापवादविमुख: परगुणपरमाणून् पर्वतीकृत्य मोदमान: यशसा वर्धमानः, यथा वहिः तथा अन्तर्वर्तिना धवलिम्ना भासमान: श्री अमृतलाल शास्त्री महोदय: चिन्तनचारित्र्यसद्व्यवहारप्रशस्तवातायन सभागतसमीरणसौगन्ध्य सौरस्यसम्पूजितकायो निकायः स्पृहणीयगुणानां वर्तमानो विश्वेश्वरपुण्यपुर्यां ह्लादयति सर्वान्नः इति कियान् नु खलु प्रमोद विषयः। ___यदाहं वाराणस्यां पर्यपठम् तदाऽयं खलु महानुभाव आसीदध्यापयिता तत्रत्ये स्याद्वाद संस्कृत महाविद्यालये। तत्र समायोज्य तेस्म प्रतिवर्ष छात्राणां वाद विवाद प्रतियोगिता। तत्र भागं गृहीत्वा सम्प्राप्यचोत्तमं स्थानं लब्धं भयाऽपि नैकवारं स्वर्णपदकम् तत्रभवत: श्री अमृतलालमहोदयस्य करतला दितिमन्येऽहमात्यानमपिधन्यधन्यम। वर्षीयसानेनातिवाह्यतेऽधुना समय: काश्याम्। सा चेयं काशी विदुषां नगरी। महता पुण्योदयेन लभ्यतेऽवकाशोऽत्र। इत्थं शक्यते वक्तुं यद् पं० श्री अमृतलाल शास्त्री, पुण्यपीयूषपूर्णः, गम्भीरशास्त्रपरिशीलनपरायणोऽपि हासपरिहासकुशल:, स्वच्छहृदय:, दिव्यान्तरात्मा, अनाग्रही, साहित्यशास्त्रे कृतश्रमोऽपि जैनदर्शन पारदृश्वा, अनुवादकः कठिनतरग्रन्थानाम्, आदर्शोऽध्यापकः, सर्वथा सर्वदा अभिनन्दनीयो वन्दनीयश्च सर्वेषां नः, स्वस्थ: निरामयो जीव्याच्च शरदां शतम्। कुर्याच्च कल्याणमात्महितचिकीर्षुणामिति प्रार्थ्यन्तेऽहर्निशं भवानीपतय: शंविधातार: काशीपुराधीश्वराः।। ब्राह्मी विद्यापीठम्, लाडनूं सुहृद्वराणां श्रीअमृतलालजैन महाभागानां शुभाशंसनम् प्रो० बटुकनाथशास्त्री खिस्ते आबाल्याद्गुरुवृन्दपादयुगलीसेवासमिद्धात्मनां , नाना प्राकृत संस्कृतादिरचनावैदुष्यभूषा जुषाम्। पीयूषायित नामलब्धयशसां माधुर्यधुर्यात्मनां, सच्छोस्लामृतपानतृप्तमनसां सौभाग्यमाशास्महे ।। सौजन्यसद्विनयमञ्जुलवाङ्मयश्रीव्याहारचारुवदनस्य शुभाशयस्य । वाग्देवताकरुणयाऽमृतलालनाप्नोमित्रस्य मङ्गलमयं सकलं समीहे ।। सञ्जनः सृहदां स्नेही शाखवित् गुरुसेवकः। जीव्यात्सकुशलं दीर्घममृताख्यो महामतिः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202